________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ २३२ ॥
9999999999999999999ख
www.kobatirth.org
केनापि द्रमकेण वृत्तिं कुर्वता महोपक्रमेण कार्षापणसहस्रमर्जितं स तद्वासनिकां कटौ बध्वा सार्थेन समं गृहं प्रस्थितः, मार्गे भोजनार्थं चैकं रूपक मशीतिकाकिणीभिर्भिवा दिने दिने एकया काकिण्या भुंक्ते, एवं मार्गे तेनैकोनाशीतिकाकिण्यो भक्षिताः, एका काकिण्यवशिष्टास्ति, सा च सद्यः सार्थे चलिते विस्मृता, अग्रे गच्छतस्तस्य सा स्मृतिपथमागता, एवं च तेन चिंतितमेकदिने भोजनार्थं मे रूपकभेदः कर्तव्यो भविष्यतीति क्वचिद्वासनिकां संगोप्य पश्चान्निवृत्तः, तत्र सा काकिणी केनचिह हृता यावच्च वासनिकास्थाने पुनरायाति तावत्सापि केनचिद् हृता, ततोऽसावुभयत्रष्टो गृहं गतः शोचति अथाब्रदृष्टांतो दर्श्यते-- कस्यचिद्राज्ञ आम्राजीर्णेन विसूचिकाभृत्, वैद्यैर्महतोपक्रमेण तामपनीयोक्तं चेदात्राणि पुनस्त्वं खादसि तदा विनश्यसि ततस्तेन राज्ञा स्वदेशे आना उत्खातिताः. अन्यदा स राजाश्वापहृतो दूरतरवने गतः, तत्राम्रवृक्षच्छायायामुपविष्टः, पक्कान्यान्त्राणि दृष्ट्वा चलचित्तो मंत्रिणा वार्यमाणोऽपि भक्षितवान्, तदानीमेव स मृतः, एवं काकिण्यासदृश मनुष्यकामासेवनतो वालनरेण देवकामा हार्यंते इति परमार्थः ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
96009960666666
सटीकं
|॥ २३२ ॥