________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ २३१ ॥
39699000000003669990094
www.kobatirth.org
॥ मूलम् ॥-तओ आउपरिक्खीणे । चुआ देहा विहिंसगा | आसुरीयं दिसं बाला । गच्छति अवसा तमं ॥ १० ॥ व्याख्या - तत आयुषि परिक्षीणे सति ते त्रिहिंसका विशेषेण हिंसाकारका नरा देहाच्च्युता मनुष्यशरीराद् भ्रष्टाः संत आसुरीयं दिशं गच्छति, कीदृशास्ते बालाः ? मूर्खा असुराणां रौद्राणां रुद्रकर्मकारिणामियं भावदिशा आसुरी, तां, पुनः कीदृशास्ते ? अवशाः परवशा इंद्रियवशवतिनो वा कीदृशीमासुरीं दिशं ? तममिति तमोंधकारं तद्युक्तत्वात्, तमःस्तोममयीं नरकगतिमिति भावः ॥ इति प्रथम एलकस्य दृष्टांतः अथ काकिन्याम्रदृष्टांतमाह
॥ मूलम् ॥ - जहा कागिणिए हेउं । सहस्सं हारए नरो ॥ अपत्थं अंबगं भुच्चा | राया रजं उ हारए ॥ ११ ॥ व्याख्या-यथा कश्चिन्नरः काकिन्या हेतोः सहस्रं टंकानां हारयेत्, काकिणी तु रूपकद्रव्यस्याशीतितमो भागस्तदर्थं कश्चित्कृपणः टंकानां दीनाराणां सहस्रं पातयेत्. सोऽतीव मूर्ख शिरोमणिः. अत्र मनुष्य भोगसुखस्य तुच्छत्वेन कपर्दिकादृष्टांतः, तु पुनः कश्चिद्राजाऽपथ्यमाम्रफलं भुक्त्वा राज्यं हारितवान् हारयेद्वा. अत्र भोगसुखस्य तुच्छत्वोपरि काकिण्या ब्रदृष्टांतद्वयोदाहरणे दइते - एकेन
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
100€
सटीकं
॥ २३९ ॥