________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
सटीक
उत्तरा- काखेनैव स्तन्यपानमकरोत्. एवं यो यथेष्टविविधास्वादलंपटोऽधर्ममाचरति स नरकायुर्वनातीत्यर्थः. ॥१॥ २२७॥
॥ मूलम् ॥-तओ पुढे परिवूढे ।जायमेए महोदरे ॥ पीणिए विउले देहे । आएसं परिकंखए B॥२॥ व्याख्या-ततः स एलकः कीदृशो जातः? ततः स उरभ्रः पुष्ट उपचितमांसः, परिवृढो यु
द्वादौ समर्थः, सर्वेष्वन्येपूरभ्रेषु मुख्य इव दृश्यमाणः, पुनः कीदृशः? जातमेदाः पुष्टीभूतचतुर्थधातुः, पुनः कीदृशः? महोदरो विशालकुक्षिः, पुनः कीदृशः? प्रीणितो यथेप्सितभोजनादिना संतुष्टीकृतः, एतादृशः सन् स उरभ्रो विपुले विस्तोणे देहे सत्यादेशं प्रापूर्णकं परिकांक्षति प्रतीच्छतीव. ॥२॥
॥ मूलम् ॥-जाव न एइ आएसे । ताव जीवइ से दुही ॥ अह पत्तमि आएसे। सीसं छित्तण भुञ्जई ॥३॥ व्याख्या-स उरझस्तावज्जीवति प्राणान् धारयति, कीदृशः सः? दुःखी, दुःखमस्य | भावीति दुःखी, भाविनि भूतोपचारात्, यद्यपि वर्तमानकाले तस्य सुखमस्ति तथापि दुःखस्यागामित्वाद दुःख्युच्यते, तावदिति किं ? यावदादेशः प्राघूर्णको नैति नागच्छति. अथादेशे प्राप्ते सति शीर्ष छित्वा स उरभ्र आदेशेन समं स्वामिनापि भुज्यते. ॥३॥
90000000000000000
200000000000000002
॥२२७॥
For Private And Personal Use Only