________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२२६॥
000005@@@@G00000@@@
पोषयेत्, तस्मै एलकायोदनं सम्यग्धान्यं यवसं मुद्माषादिकं दद्यात्, ततश्च पोषयेत्, पुनः पोषये|दित्युक्तं तदत्यादरख्यापनार्थं, अपिशब्दः संभावने, संभाव्यत एषु एवंविधः कोऽपि गुरुकर्मेत्यर्थः. ॥१॥ अत्रोदाहरणं यथा-एकमूरणकं प्राघूर्णकार्थं पोष्यमाणं लाल्यमानं दृष्ट्रको वत्सः खिन्नः क्षीरमपिबन् गवा मात्रा पृष्टः कथं वत्स ! क्षीरं न पिवसि? स आह मातरेष ऊरणकः सबैलोकः पाल्यते, बीहीश्चार्यते, पुत्र इव विविधैरलंकारैरलंक्रियते, अहं तु मंदभाग्यः शुष्कान्यपि तृणानि न प्राप्नोमि, न च निर्मलं पानीयमपि प्राप्नोमि, न च मां कोऽपि लालयति, माता प्राह पुत्र ! अस्यैतान्यातुरचिहानि, यथा मर्तुकाम आतुरो यद्यन्मार्गयति पथ्यमपथ्यं वा तत्तत्सर्वं दीयते, तद्वत्तत्सर्वमप्यस्य दीयते, अथासौ मारयिष्यते तदा त्वं द्रक्ष्यसि. अन्यदा तत्र प्राघूर्णकः समायातः, तदर्थं तमृरणकं मार्यमाणं दृष्ट्वा भीतः स वत्सः पुनः स्तन्यपानमकुर्वन्मात्राऽनुशिष्टो हे पुत्र ! किं त्वं भीतोऽसि ? पूर्व | मयोक्तं न स्मरसि किं? आतुरचिहान्यतानीति, य एवं व्रीहीश्चारितः प्रकामं लालितः स एव मार्यते, त्वं तु शुष्कान्येव तृणानि चरितवानसीति मा भैषीः ? नैव मारयिष्यसे, इति मात्रोक्तो वत्सः सु
@000000000000000000
॥२२६॥
For Private And Personal Use Only