________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
उत्तरा
सटीकं
॥२२४॥
900000000000000006
निंद्रादिभिः पूज्यो ज्ञातः प्रसिद्धः सिद्धार्थक्षत्रियस्तस्य पुत्रो ज्ञातपुत्रः, कीदृशो महावीरः? भगवानष्टमहाप्रातिहार्याधतिशयमाहात्म्ययुक्तः, पुनः कीदृशः? विशाला त्रिशला तस्याः पुत्रो वैशालिकः, अथवा विशालाः शिष्यास्तीथं यशःप्रभृतयो गुणा यस्येति वैशालिकः, पुनः कीदृशो महावीरः? 'वियाहिए' इति व्याख्याता विशेषेणाख्याता द्वादश पर्षदासु समवसरणे धर्मोपदेशं व्याख्याता धर्मोपदेशक इत्यर्थः. पुनः कीदृशो महावीरः? अनुत्तरज्ञानी सर्वोत्कृष्टज्ञानधारी, पुनः कीदृशः? अनुत्तरदर्शी, अनुत्तरं सर्वोत्कृष्टं पश्यतीत्येवंशीलोऽनुत्तरदर्शी, पुनः कीदृशः ? अनुत्तरज्ञानदर्शनधरः, केवलवरज्ञानदर्शनधारीत्यर्थः. अत्र पूर्वमनुत्तरज्ञान्यनुत्तरदर्शीति विशेषणद्वयमुक्त्वा पुनरनुत्तरज्ञानदर्शनधर इति विशेषणमुक्तं, तेन केवलदर्शनयोरेकसमयांतरेण युगपदुत्पत्तिः सूचिता, अनयोः कथंचिद्भेदोऽभेदश्च सूचितः, पुनरुक्तिदोषो न ज्ञेयः ॥ १८ ॥ इति क्षुल्लकग्रंथित्वाध्ययनं. अत्राध्ययने क्षुल्लकस्य साधोनिग्रंथित्वमुक्तमित्यर्थः ॥ इति श्रीमदत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचि
00000000000000000000
॥२२४॥
For Private And Personal Use Only