________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥२२०॥
500000000000000000004
इत्यध्याहारः, इतीति किं ? चित्राःप्राकृतसंस्कृताद्याः षड्भाषाः, अथवान्या अपि देशविशेषान्नानारूपा | भाषा वा पापेभ्यो दुःखेभ्यो न त्रायते न रक्षते, तर्हि विद्यानां न्यायमीमांसादीनामनुशासनमनुशिक्षणं विद्यानुशासनं कुतस्त्रायते?न त्रायत इत्यर्थः. अथवा विद्यानां विचित्रमंत्रात्मिकानां रोहिणीप्रज्ञप्तिकागौरीगांधार्यादिषोडशविद्यादेव्यधिष्टितानामनुशासनमनुशिक्षणमाराधनं कुतो नरकात् त्रायते? कीदृशास्ते बालाः अतत्वज्ञाः, पुनः कीदृशास्ते? पापकर्मभिर्विषण्णा विविधमनेकप्रकारं यथास्यात्तथा सन्नाः पापपंकेषु कलिता इत्यर्थः ॥२१॥
॥ मूलम् ॥–जे केइ सरीरे सत्ता । वन्ने रूवे य सवसो ॥मणसा कायवक्केण । सवे ते दुक्खसंभवा ॥ १२॥ व्याख्या-ये केचन ज्ञानवादिनः शरीरे सक्ताः सुखान्वेषिणश्च संति, तथा पुनर्ये वणे शरीरस्य गोरादिके, च पुनस्तथा रूपे सुंदरनयननासादिके, चशब्दाच्छब्दे रसे गंधे स्पर्श च सर्वथा मनसा कायेन वाक्येन सक्ताः संलग्नाः संति, ते सर्वे दुःखसंभवा दुःखस्य संभवा दुःखसंभवा दुःखभाजनं भवंति, मृगपतंगमीनमधुपमातंगवदिहलोके यथा मरणदुःखभाजः, परलोकेऽप्यार्तध्यानेन
000000000000000000000
For Private And Personal Use Only