________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा- बाह्यशरीरं च, अभ्यंतरं कार्मणशरीरं, बाह्यमौदारिकशरीरं, आघाय विनाश्य त्रयाणां सकाममरणानां ॥२१२॥
मध्येऽन्यतरेणैकेन सकाममरणेन म्रियते, तानि त्रीणि सकाममरणानीमानि-भक्तपरिज्ञा भक्तप्रत्याख्यान १ इंगिनी २ पादपोपगमनाख्यानि ३. यत्र भक्तस्य त्रिविधस्य चतुर्विधस्य चाहारस्य प्रत्याख्यानं १, यत्र मंडलं कृत्वा मध्ये प्रविश्य मंडलाइहिर्न निःस्रीयते तदिगिनीमरणं २, यत्र छिन्नवृक्षशाखावदेकेन पावेन निपत्यते, पार्श्वस्य परावतों न क्रियते तत्पादपोपगमनं. एतेषां त्रयाणां मध्ये
ऽन्यतरेण मरणेन म्रियते, इति सुधर्मस्वामी जंबूस्वामिनं प्रति कथयति हे जंबू! अहं भगवद्वचसा 15| त्वां ब्रवीमि. ॥ ३२ ॥ इत्यकामसकाममरणीयमध्ययनं पंचम.॥ HI इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभभगणि
विरचितायामकामसकाममरणीयाख्यस्य पंचमाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु ॥
10000000000000000000
100000000000000000000
॥२१२॥
For Private And Personal Use Only