________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥२०७॥
000000000000000000000
चालयन शिलांतर्निपतितः, शिलातले चूर्णितवपुः सप्तमं नरकं गतः. एवं भिक्षुरपि दुर्ध्यानेन दुःशीलत्वान्नरकमेव गच्छतीति परमार्थः. ॥ २२ ॥
॥ मूलम् ॥-अगारी सामाइयंगाइ। सट्ठी कारण फासए॥ पोसहं दुहऊ पक्खं । एगराई न | हावए ॥ २३ ॥ व्याख्या-अगारी गृहस्थः सामायिकांगानि सामायिकस्यांगानि सामायिकांगानि निःशंकितनिःकांक्षितनिर्विचिकित्सितामूढदृष्टिप्रमुखाणि कायेन स्पृशति, कीदृशः सन् ? श्रद्धी श्रद्धा-19 वान् सन्, पुनर्गृहस्थः, उभयोः शुक्लकृष्णपक्षयोः पौषधं सेवते, चतुर्दशीपूर्णिमामावास्यादिषु पोषध आहारपोपधादिकं कुर्यात्. एकरात्रिमप्येकदिनमपि न हापयेत्, न हानि कुर्यादित्यर्थः. रात्रिग्रहणं दिवा व्याकुलतायां रात्रावपि पौषधं कुर्यात्, चेदेवं न स्यात्तदा चतुर्दश्यष्टम्युद्दिष्टा, महाकल्याणकपूर्णिमाचतुर्मासकत्रयस्य दिवसे पौषधं कुर्यात्, सामायिकांगत्वेनैव सिद्धे भेदेनोपादानमादरख्यापनार्थम्. २३
॥मूलम् ॥-एवं सिक्खासमावन्ने । गिहवासेवि सुब्बए॥ मुच्चई छविपव्याओ। गच्छे जक्खसलोगयं ॥ २४ ॥ व्यख्या-एवममुना प्रकारेण शिक्षासमापन्नः श्राद्धाचारसहितो गृहस्थवासेऽपि
10000७e06@@deeg
For Private And Personal Use Only