________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥२०५॥
200000000000000000000
हिततपःकारिणः, केचिन्निर्मलचारित्रिणः, केचिद्दकुशचारित्रिणः, इति कथनेन तीर्थांतरीयास्तु वेषधा| रिणो दूरत एवोत्सारिताः.॥ १९॥
॥ मूलम् ॥–संति एगेहिं भिक्खुहिं । गारत्था संयमुत्तरा ॥ गारत्थेहिं य सव्वेहिं । साहवो संजमुत्तरा ॥ २०॥ व्याख्या-एकेभ्यो भिक्षुभ्यो निवभग्नचारित्रादिभ्यः पाखंडिकुतीर्थिभ्यश्च, अगारस्था अपि गृहस्था अपि संयमुत्तराः संति, संयमेन देशविरतिलक्षणेन धर्मेणोत्तराः प्रधानाः संति, सर्षपमेरुपर्वतयोरिवांतरमस्ति, सर्वेभ्यो द्विविधत्रिविधप्रत्याख्यानधरेभ्योऽगारस्थेभ्यः साधवः षड्बतषट्कायरक्षकाः संयमेन सप्तदशभेदेनोत्तराः प्रधानाः समीचीनाः संति. अत्र दृष्टांतः-एकः श्रावकः साधुं पृच्छति श्रावकाणां साधूनां च मिथः कियदंतरं? साधुनोक्तं मेरुसर्षपोपममंतरं, तत आकुलीभूतः स श्रावकः पुनः पृच्छति कुलिगिनां श्रावकाणां मिथः कियदंतरं? साधुनोक्तं तदपि मेरुसर्षपोपममंतरं. ततः स श्रावकः स्वस्थो जात इति. ॥ २० ॥
॥ मूलम् ॥-चीराजिणं नगिणिणं । जडा संघाडिमुंडिणं ॥ एयाणिवि न तायति ।
000000000000000000000
॥२०५
For Private And Personal Use Only