________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ २०४ ॥
18003999999999903000
www.kobatirth.org
॥ मूलम् ॥ - मरणंपि सपुन्नाणं । जहा मे तमणुस्सयं ॥ विप्पसन्नमणाघायं । संजयाणं बुसीमओ ॥ १८ ॥ व्याख्या—सपुण्यानां पुण्यवतां संयतानां यथा मे मया मरणमनुश्रुतमवधारितं, भो भव्यास्तत्सकाममरणं भवद्भिर्मनसि धार्यं, कीदृशं सकाममरणं ? विप्रसन्नं विशेषेण कषायादिमलराहित्येन प्रसन्नं निर्मलं, पुनः कीदृशं ? अनाघातं, न विद्यते आघातो यत्नवत्त्वेनान्यजीवानां संयमजीवितव्यस्य च नाशो यस्मिंस्तदनाघातं, कीदृशानां संयतानां ? ' बुसीमओ ' आर्षत्वाद्वश्यवतां वश्य आत्मा येषां ते वश्यवंतः तेषां जितात्मनामित्यर्थः ॥ १८ ॥
॥ मूलम् ॥
इमं सर्व्वसु भिक्खुसु । न इमं सव्वेसुगारिसु ॥ नाणासीला अगारत्था । विसमसीला य भिक्खुणो ॥ १९ ॥ व्याख्या - इदं पंडितमरणं सर्वेषां भिक्षूनां साधूनां न भवति, किंतु केषांचित्साधूनां भवेत्, सर्वेषामगारिणां गृहस्थानामपीदं पंडितमरणं न भवति, किंतु केषांचिदेव भवेत् यतोऽगारस्था गृहस्था नानाशोला नानाचारा भवंति च पुनर्भिक्षवोऽपि साधवोऽपि विषमशीला विषमं विसदृशं शीलं येषां ते विषमशीलाः, केचित्सनिदानतपः कारकाः, के चिन्निदानर
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
00999999999999 ३०००००००
सटीक
॥ २०४ ॥