________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ २०३ ॥
399996000000
www.kobatirth.org
सोइ ॥ १५ ॥ व्याख्या - एवममुना प्रकारेण धर्मं व्युत्क्रम्य विशेषेणोध्याधमं प्रतिपद्य बालो मूखों मृत्युमुखं मरणमुखं प्राप्तः सन् शोधते शोकं कुरुते, क इव ? अक्षे भग्ने शाकटिक इव ॥ १५ ॥ ॥ मूलम् ॥ तउ से मरणं तंमि । वाले संतस्सई भया । अकाममरणं मरइ । धुतेव कुलिणा जिए ॥ १६ ॥ व्याख्या - ततः स मूर्खो मरणांते भयात् संत्रसते संत्रासं प्राप्नोति, अकाममरणं म्रियते म्रियमाणः सन् शोकं विदधाति क इव ? धूर्तो द्यूतकारी कलिना द्यूतदोपेन जितः, केन चित्ततोऽधिकेन दुष्टेन जितो गृहीतद्रव्यः सन् शोचते, तथा शोचत इत्यर्थः अनेन सह मया किमर्थं क्रीडा कृता ? अहं हारितः ॥ १६ ॥
॥ मूलम् ॥ एवं अकाममरणं । बालाणं तु पवेइयं ॥ एत्तो सकाममरणं । पंडियाणं सुणेह मे ॥ १७ ॥ व्याख्या - बालानामकाममरणमेतत्प्रवेदितं, तुशब्दो निश्चयार्थे, मूर्खाणामेवाकाममरणमित्यर्थः, तीर्थंकरैः कथितं इतः प्रस्तावादनंतरं मे मम कथयतः पंडितानां सकाममरणं यूयं शृणुत ? ॥ १७ ॥
For Private And Personal Use Only
10389000099990090066
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥ २०३ ॥