________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥१६॥
0000000000000000000
लोए परत्थ य ॥ १५॥ व्याख्या-आत्मा एव दमितव्यो वशीकर्तव्यः, ह इति निश्चयेन खलु यस्माकारणादात्मा दुर्दमो वर्तते आत्मानं दमन् जीवः सुखीभवति. अस्मिन् लोके च पुनः परत्र परभवे च सुखीभवति. ॥१५॥ आत्मदमने दृष्टांतः-यथैकस्यां पल्ल्यां द्वौ भ्रातरो तस्करनायको स्तः. सार्थेन सह गच्छतां साधूनां वर्षाऋतुः प्राप्ता, न च तत्र कोऽपि साधुभक्तोऽस्ति, तेन साधवस्तस्करनायकयोः समीपे गताः, तान् प्रणम्य कथयतः किं प्रयोजनं भवतां? साधुभिर्भणितमस्माकं वर्षासु विहाँ न कल्पते, ततो वर्षावासप्रायोग्यमुपाश्रयं प्रार्थयामः, ताभ्यां च सहर्ष साधूनामुपाश्रयो दत्तस्तत्र विश्वस्तास्तिदंति साधवः, चौरनायकाभ्यां भणितमस्माकं गृहेषु संपूर्ण भक्तादि गृहीतव्यं, साधुभिर्भणितं न कल्पते एकस्मिन् गृहे पिंडग्रहणं साधूनां, ततः सर्वेषूचितगृहेषु विहरिष्यामः, उपाश्रयदानेनैव 18 भवतां महापुण्यसंबंधो जातः, उक्तं च-जो देइ उवस्सयं । मुनिवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थन्न-पाणसयणासणविगप्पा ॥१॥ तवसंजमसज्झाओ। नाणज्झाप्तो जणोवयारो य॥जो साहणमवगाह-कारी सिज्झायरो तस्स ॥ २॥ पावइ सुरनररिद्धि-सुकुलुप्पत्ती य भोगसामिद्धि॥
For Private And Personal Use Only