________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
10000000000000000000
नित्थरइ भवमगारी । सिजादाणेण साहणं ॥३॥ इदं साधुवचः श्रुत्वा तावत्यंतं परितुष्टौ, तेषां साधूनामुपद्रवं रक्षतो विश्रामणादिभक्तिं च कुरुतः, सुखेन साधूनां वर्षाकालोऽतिक्रांतः, गच्छद्भिः साधुभिस्तयोश्चौरनायकयोरन्यत्रतग्रहणाऽसमर्थयोर्निशाभोजननियमो दत्तस्तोयरेवमुपदिष्टः-मालिंति महीयलं जा-मिणीसु रयणीअरा समं तेण ॥ ते वित्थलंति य कुडं । राइए भुंजमाणाओ ॥१॥ मेहं पत्रीलिआओ। हणंति वमणं च मत्थिया कुणइ ॥ जूआ जलायरं तह । कोलिओ कुट्ठरोगं च ॥२॥ वालो सरस्स भंगं । कंटो लगइ गलंमि दारुं च ॥ तालुमि विंधइ अली । वंजणमझंमि भुजतो ॥३॥ जीवाण कंथुमाइण । घायणं भायणधोअणाईस ॥ एमाइ रयणिभोअण । दोसे को साहिउं तरइ ॥ ४॥ उलूककाकमार्जार-गृध्रसंवरशूकराः ॥ अहिवृश्चिकगोधाश्च । जायंते रात्रिभोजनात् ॥५॥ अतोऽस्मिन् व्रते दृढप्रयत्नैर्भवितव्यमिति भणित्वा गताः साधवः, तावपि चौरनायको सपरिवारौ कियन्मार्गमनुगम्य निवृत्ती, मुनिसेवया कृतार्थत्वं मन्यमानो तिष्टतः. अन्यदा ताभ्यां धाटीगताभ्यां बहगोमहिषमानीतं, अंतरालमागें तत्परिवारपुरुषैः कैश्चिन्महिषो व्यापादितस्तद्भोजनाय सपरिवारौ तो
FOOF0000000000000000
For Private And Personal Use Only