________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥१५॥
मंत्रसिद्धं ममेकं भूतमस्ति, तदत्यंतं रूपवद्गोपुररथ्यादिषु भ्रमद्यः पश्यति स त्रियते, यस्तदृष्ट्वाऽधोमुखः स्यात्स सर्वरोगैर्मुच्यते, राज्ञा भणितमलमनेनातिरोषणेन भूतेन ! अथ द्वितीयमांत्रिकेणोक्तं मम भृतं महाकायं लंबोदरं विस्तीर्णकुक्षिपंचशीर्षमेकपादं विकृतरूपमट्टहासं कुर्वदृष्ट्वा यो हसति तस्य | शिरः सप्तधा स्फुटति, यस्तु तद्भुतं धूपपुष्पस्तुत्यादिभिः पूजयति स सर्वरोगमुच्यते, राशोक्तमनेनापि मृतेन सृतं! अथ तृतीयेन मांत्रिकेणोक्तं ममाप्येवंविधभूतमस्ति, परं प्रियाप्रियकारिणं जनं दर्शनादेव रोगेभ्यो मोचयति, राज्ञोक्तमेवं भवतु. तथा कृते तन्नगराशिवमुपशांतं. ततो नृपादिजनैः
स तृतीयमांत्रिकः पूजितः. एवं साधुरपि पूजां निंदां प्रियाप्रियं सहेत. उक्तं च-लाभालाभे सुखे 5 दुःखे । जीविते मरणे तथा ॥ स्तुतिनिंदाविधाने च । साधवः समचेतसः ॥ १॥ स्तुतिनिंदादावन- |
गारोऽद्वेषवान् साधुर्भवतीति. ॥१४॥ क्रोधाद्यसत्यताकरणं चात्मदमने एवं स्यादतस्तदुपदेशं तत्फलं चाह
॥ मूलम् ॥-अप्पा चेव दमेयत्रो । अप्पा हु खलु दुद्दमो ॥ अप्पा दंतो सुही होइ । अस्सिं
00000000000000000000
॥१५॥
For Private And Personal Use Only