________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
Đot so€oàn và tiêu
॥ मूलम् ॥-संतिमे य दुवे ठाणा । अक्खाया मारणंतिया ॥ अकाममरणं चेव । सकाममरणं तहा ॥२॥ व्याख्या-इमे प्रत्यक्षे द्वे स्थाने आख्याते, जीवनिवासाश्रयावाख्यातो, पूर्व तीर्थंकरैः कथितो, कीदृशे द्वे स्थाने ? मारणांतिके, मरणमेवांतो मरणांतस्तत्र भवं मारणांतिकं, तस्मिन् मरणावस्थायां जाते इत्यर्थः. ते द्वे स्थाने के ? एकमकाममरणं च पुनरन्यत्तथा सकाममरणं, अकाममरणं बालमरणं, सकाममरणं पंडितमरणं, चैवशब्दो पदपूरणार्थों. मरणं सप्तदशधा-आवीचीमरणं १ अवधिमरणं २ अंतिम ३ वलय ४ वशात ५ अंतःशल्य ६ तद्भव ७ पंडित ८ बाल ९ मिश्र १० छद्मस्थ ११ केवली १२ विहायस १३ गृद्धपृष्ट १४ मत्तपरिज्ञा १५ इंगिनी १६ पादपोपगमनं १७ चेति.
॥ मूलम् ॥ बालाणं अकामं तु । मरणं असयंभवे ॥ पंडियाणं सकामं तु । उक्कोसेणं सयं भवे ॥३॥व्याख्या-बालानां मूर्खाणामकामं, अकामेनानीप्सितत्वेन म्रियतेऽस्मिन्नित्यकाममरणमसकृद्धारंवारं भवेत् , तु पुनः पंडितानां सकामं, सह कामेनेप्सितेन म्रियतेऽस्मिन्निति सकाममरणं, यस्मिन्नागते सत्यसंत्रस्थतयोत्सवभूतत्वेन सकाममिव सकामं, तादृशं मरणं पंडितानामुत्कृष्टं सकृदेकवारमेव
5000000000000000000000
For Private And Personal Use Only