________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
SEX
॥ अथ पंचममध्ययनं प्रारभ्यते ॥
00000000000000000000
अथ पूर्वाध्ययने यावच्छरीरभेद इति ब्रुवता मरणकालेऽप्यप्रमादः कार्य इत्युक्तं, स च मरणविभागज्ञानतः स्यात् , अतो मरणभेदमाह, इति चतुर्थपंचमयोः संबंधः.
मूलम् ।।-अण्णवंसि महोहंसि । एगे तिन्ने दुरुत्तरं ॥ तत्थ एगे महापन्ने । इमं पहमदाहरे ॥१॥व्याख्या-एके महापुरुषा गौतमादयो घातिकर्मरहिता अर्णवात्संसारसमुद्रात्तीर्णाः पारं प्राप्ताः, कीदृशादर्णवात् ? महोघात् , महानोघो यस्य स महौघस्तस्मात्, अत्र प्राकृतत्वाद्विभक्तिव्यत्ययः. हे जंबू ! तत्र देवमनुष्यसभायामेकस्तस्मिन् काले, अत्र भरतक्षेत्रे एकस्य तीर्थंकरस्य विद्यमानत्वादेको महावीरः, इमं प्रश्नं पृष्टव्यार्थरूपं प्रश्नयोग्यं वाक्यमुदाजह्वे उदाहृतवान् , कथंभूत एकः ? महाप्रज्ञः, महती केवलात्मिका प्रज्ञप्तिर्यस्य स महाप्रज्ञः. ॥१॥
0000000000000000000
१९५॥
For Private And Personal Use Only