________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१८९॥
ఆ0000000eeeeeeeeeeeee
ममाह्वातुं पुरुषाः प्रेषिताः, यामि तावत्तत्र, अथेतो न नष्टुं शक्यते, यद्भाव्यं तद्भवत्विनि चिंतयन्नेवासौ तैः पुरुषैः शनैः शनैर्ऋजन् राजसभायामानीतः, राज्ञाप्यसावभ्युत्थानादिना मानितः, अर्धासने | निवेशित आश्वासितश्च, स्वनेपथ्यसमस्तस्य नेपथ्यो दत्तः, स्वभोज्यसमं भोजनं कारितं. अन्यदा | तस्योक्तं स्वभगिनी मम देहि ? तेन सा दत्ता, राज्ञा परिणीता प्रेमपात्री कृता च. अन्यदा राज्ञोक्तं द्रव्यं मे विलोक्यते, त्वं धनी स्वकीयोऽसि, ततो मे द्रव्यं देहि ? चिंता तु तथैवास्ति, तेन राजमार्गितं द्रव्यं दत्तं, स राजपावें सुखेन तिष्टति. अन्यदा पुनरपि राज्ञा द्रव्यं मार्गितं, तेन दत्त, राज्ञा तस्य महान् सत्कारः कृतः, पुनरपि राज्ञा द्रव्यं मार्गितं, तेनापि तथैव दत्तं. एवमंतरांतरा राज्ञा सत्कारपूर्वकं तस्य द्रव्यं गृहीतं, भगिनी पृष्टाथास्त्यस्य किंचिद्धनं, सा प्राहायं रिक्तीकृतस्त्वया, नातःपरमस्य किंचिद्धनमस्तीति श्रुत्वा राज्ञासौ मंडिकश्चौरः शूलायामारोपितः, अत्रायमुपनयो यथायमकार्यकार्यपि मंडिकश्चौरो मूलदेवेन यावल्लाभं रक्षितस्तथा धर्मार्थिनापि संयमलाभहेतुकं जीवितं रक्षणीयं, यावत्कालं संयमलाभस्तावत्कालं जीवितमौषधादिना रक्षणीयं, नान्यथेति.
3000000G0600960000600
॥१८९॥
For Private And Personal Use Only