________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा- मलदेवस्य शिरस्येकः पोहलिको दत्तः, सर्वानप्यग्रे कृत्वा वयं खड्गपाणिः पृष्टौ स्थितः, श्मशानांत
सटीक ॥१८८॥
भूमिगृहे सर्वेऽपि प्रवेशिताः, ततः पोट्टलकधनानि कूपांतश्चिक्षेप, सर्वेषामपि तेषां पादशौचं तत्रस्थया चौरभगिन्या दत्तं, स्वयं पादक्षालनं चक्रे, मूलदेवपादक्षालनावसरे तत्पादसौकुमार्यादिना कोऽप्ययं महान् राजेति ज्ञातवती, नायं मया विनाश्य इति मत्वा तया मूलदेवस्य नेत्रसंज्ञा कृता, ततः स | मूलदेवो नष्टः, पश्चात्तया चौरस्य स्वाभ्रातुरुक्तमेष पुरुषो नष्टः, भ्रातापि गृहीतखड्गस्तत्पृष्टी चलितः,
मूलदेवोऽपि तं प्रत्यासन्नमागतं दृष्ट्वा क्वचित्स्थाने बब्बरपाषाणशिवलिंगं स्वोत्तरीयवस्त्रेणाच्छाद्य स्वय12 मंतरितः स्थितः, कोपांधेन चौरेण तत्रागत्य स एवायं पुरुष इति कृत्वा शिवलिंगमस्तके कंकलोह
मयखड्गप्रहारो दत्तः, तच्छिवलिंगं द्विधा कृतं, हतो मया स पुरुष इति जानन् स्वस्थाने गत्वा सुप्तः, मूलदेवोऽपि स्वस्थाने गत्वा सुप्तः, प्रभाते स मंडिकतुन्नकश्चतुःपथांतः समागत्य तथैवानंदं कुर्वन् स्थितः, राज्ञा च प्रभाते स्वपुरुषैः स आकारितः, राजपुरुषेषु तत्रायातेषु तेन चिंतितं तदानीं मया
10॥१८८॥ स पुरुषो न हतः, किंतु दृषदावेव खड्गप्रहारो दत्तः, यो नष्टः पुरुषः सोऽवश्यमत्रत्यो राजा, तेनैव
300000000000000000000
000000000000000000000
For Private And Personal Use Only