________________
Shri Mahavir Jain Aradhana Kendra
www kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीकं
॥१८७॥
06oseceo@DECE0000000
साधं प्रीतिं चकार, अनेकद्रव्यलक्षप्राभृतानि प्रेषितवान्. एकदा मूलदेवेन तत्पाश्वे देवदत्ता मार्गिता, तेन प्रीतिपरवशेन सा प्रेषिता, मूलदेवेन स्वपट्टराज्ञी कृता, तया समं यथेष्टं मूलदेवो भोगान् भुंक्ते. अन्यदा तत्र समुद्रमार्गादचलः समायातः, मांडविकैः शुल्कचौर्याबद्धो मूलदेवराज्ञः पुर आनीतः, मूलदेवेन राज्ञा स उपलक्षितः, कथितं च त्वं मामुपलक्षयसि ? स आह कस्त्वां नोपलक्षयति ? त्वं महाराजः, मूलदेवेनोक्तं सोऽहं मूलदेव इत्युक्त्वा बंधनान्मोचितो विसर्जितश्च. एवं मूलदेवो निश्चिंतस्तत्र राज्यं करोति. स मूलदेवो नगरलोकेभ्यश्चौरपराभवं श्रुत्वान्यं नगररक्षकं कृतवान् , सोऽपि
चौरं ग्रहीतुं न शक्तः, तदा मूलेदेवः स्वयं नीलपढें प्रावृत्त्य रात्रौ निर्गतः, इतस्ततो भ्रमन् यत्र स 8 तुन्नको मंडिकचौरोऽस्ति तत्रैवायातस्तत्पाद्यं च कपटनिद्रया सुप्तः, अपरेऽपि दारिद्यभन्नाः पुरुषास्तत्र 8 सुप्ताः संति, मंडिकेन तावदाक्रंदं कृतं यावन्मध्यरात्रिः समायाता, तदानीं तत उत्थाय सर्वेऽप्युत्थापिताः, मूलदेवोऽप्युत्थापितः, आयांतु मया साधं सर्वानपि धनवतः करोमीति वदन तैः सार्धं पुरांतभ्रांत्वैकस्य धनिकस्य गृहे क्षात्रं दत्वा बहनि धनानि निष्कास्य सर्वेषां तेषां शिरसि पोहलिका दत्ताः,
000000000000000000
R॥१८७॥
For Private And Personal Use Only