________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥१८६॥
0000000000000000000
परमया भक्त्या भणितं-धन्नाणं खु नराणं । कुम्मासा हुँति साहुपारणए ॥अथ तत्प्रदेशाधिष्टाच्या देव्या मलदेवस्योक्तं वत्स! एतस्या गाथाया द्वितीयार्धे यन्मार्गयसि तद्ददामीति. मलदेवेन गाथाद्वितीयार्थमिदं कृतं-गणिअं च देवदत्तं । दंतिसहस्सं च रजं च ॥१॥ देवतया भणितमेतत्तवाचिरेणैव भविष्यति. | ततो मूलदेवो बेन्नातटे गतः, देवकुट्यां सुप्तः, तत्र कार्पटिका अपि बहवः सुप्ताः संति, तेषां मध्ये एकेन कार्पटिकेन स्वमुखे प्रविशंश्चंद्रो दृष्टः, तादृश एव स्वप्नो मूलदेवेन दृष्टः, कार्पटिकेन तु प्रातरुत्थाय गुरोः पुरः स्वप्नः कथितः, गुरुणापि त्वमद्य घृतगुडसहितं मंडकं प्राप्स्यसीति बभाषे, | मूलदेवस्तत उत्थाय नगरांतः स्वप्नपाठकगृहे गत्वा घनं विनयं कृत्वा स्वप्नपाठकाय स्वस्वप्नमाचख्यो.
तेनोक्तं सप्तमदिवसे तव राज्यं भविष्यतीति. तस्मिन्नवसरे तत्रापुत्रो राजा मृतः, सामंतैर्मत्रिभिश्च दिव्यं कृतं, सप्तमे दिवसे मृलदेवसमीपेऽश्वः समागत्य हेषारवं चक्रे, स्वपृष्टी च मूलदेवमध्यारोपितवान्, सामंतायैयोग्योऽयमिति कृत्वा राज्येऽभिषिक्तः, मूलदेवस्तत्र सहस्रदंतिराज्यं प्राप्तः, उजयिनीनृपेण
000000000000000000000
॥ १८६॥
For Private And Personal Use Only