________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ १९० ॥
30890666666663690989004
www.kobatirth.org
॥ मूलम् ॥ छंद निरोहेण उवेइ मोक्खं । आसे जहा सिक्खिययम्मधारी । पुबाई वासाई चरप्पमत्तो। तम्हा मुणी खिप्पमुवेइ मुक्खं ॥ ८॥ व्याख्या – साधुइछंदोनिरोधेन मोक्षमुपैति, गुर्वादेशं विनैव प्रवर्तनं छंदस्तस्य निरोधो निवारणं तेन गुर्वाज्ञया प्रवर्तनेन निर्भयस्थानं प्राप्नोति, को यथाशिक्षितवर्मधार्यश्वो यथा यथाशब्दइवार्थे, शिक्षा जातास्येति शिक्षितः, वर्म सन्नाहं धरतीति वर्मधारी, सन्नाहधारकः, एतादृशः सुशिक्षितः कवचधारी चाश्वोऽश्ववारशिक्षायां स्थितश्छंदोनिरोधेन स्वेच्छागमननिषेधेन मोक्षं प्राप्नोति, निर्भयस्थानं प्राप्नोति, शत्रुभिर्हतुं न शक्यते, हे साधो ! पूर्वाणि पूर्वप्रमितानि वर्षाणि यावद प्रमत्तः सन् चर ? साधुमार्गे विहर ? तस्मादप्रमत्तविहारान्मुनिः क्षिप्रं मोक्षमुपैति ॥ ८ ॥ अत्र कुलपुत्रशिक्षिताश्वद्वयोदाहरणं - एकेन राज्ञा द्वयोः कुलपुत्रयोः शिक्षणार्थमश्वौ दत्तो, एकेन कुलपुत्रेण प्रथमो धावनवलनादिकलाः शिक्षितः, द्वितीयस्तु द्वितीयेन कुलपुत्रेण न शिक्षितः, संग्रामावसरे प्रथमोऽश्वोऽथक्कः पोत इव संग्रामसागरमवगाह्य पारं गतः, सुखी बभूव. द्वितीयस्तु संग्राममध्य एव मृतः, अत्रायमुपनयः - यथासावश्वः कुलपुत्रेण शिक्षितस्तथा धर्मार्थ्यपि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
9096980330993386
सटीकं
॥ १९० ॥