SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१८३॥ 100000000000000000000६ पुत्रि ! किमनेन मूलदेवेन निःस्वेन ? अचलमेवावर्जय? मूलदेवं त्यज ? अचलमेव भज? देवदत्ता प्राहायं पंडितोऽतोवसौंदर्यादिगुणवान्, जननो प्राहास्य मूलदेवस्य निःसत्वेन सर्वेऽपि गुणा गताः, अचलस्य च ससत्वेन सर्वेऽप्यौदार्यादिगुणाः संति, यस्यौदार्य तस्य सर्वगुणाधारत्वं, चेन्न मन्यसे तदास्य मूलदेवस्याचलस्यापि चौदार्यपरीक्षां कुरु ? ततो देवदत्तयैका दासी मूलदेवस्य पार्श्वे प्रेषिता, एका चाचलस्य पार्श्वे, द्वयोरपि दासीद्वयं प्रत्येकमेवमुवाच देवदत्तेक्षुभक्षणं कर्तुमीहते, ततो मूलदेवेनेक्षुयष्टिद्वयं गृहीत्वा त्वचमपनीय शकलानि कृत्वा कर्पूरचूर्णवासना दत्वा पवित्रभाजने क्षिप्त्वा प्रेषितानि, देवदत्तांबां प्राह पश्य मूलदेवस्य विवेकितां ? तदैवाचलेनेक्षुयष्टिभृतं शकटं प्रेषितं, अक्का देवदत्तांप्रत्याह पुत्रि पश्याचलस्यौदार्य ? सा प्राहाहं किं करिण्यनेन ज्ञाता यस्याः कृते तेनासंस्कृतेक्षुयष्टिभृतं शकटं प्रेषितं ? अथाक्का मूलदेवस्य द्वेषिण्यचलपावें गत्वा देवदत्ताया मूलदेवासक्तखरूपमूचे, अचलेनोक्तं तथा कुरु यथाहं मूलदेवं गृह्णामि, तयोक्तमवश्यं मया तद्भोगावसरो ज्ञाप्यः, अचलेन तस्या दीनाराष्टशतं दत्तं, सा गृहे गत्वा देवदत्ताया इदमकथयदचलोऽद्य त्वरितकार्ये समु 300000000000000000000 ॥१८ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy