________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥१८२॥
Posted on Gà
मंडिकनामा तुन्नाकश्चौरः परद्रव्यहरणासक्त आसीत्. स च दिवसे राजमार्गमध्यस्थः पादयोमें गंडानीति बद्धपट्टकपादो मुखेन भृशमाक्रंदन तुन्नाकशिल्पमुपजीवति, रात्रौ च व्यवहारिगृहे क्षात्रं दत्वा बहुधनं गृह्णाति, नगरोद्यानांतःस्थितभूमिगृहमध्ये कूपके च सर्व क्षिपति, तत्र चास्य भगिनी कन्या तिष्टति, यांश्च भारवाहकानसाबानयति तान् सर्वानेषा स्वयं पादशौचादिबहूपचारपूर्वकं भोजनपंक्तावुपवेश्य विषमिश्रितभोजनदानेन मारयति, अपरकूपांतर्निक्षिपति च. एवं काले ब्रजति सति तेन चौरेण तन्नगरं भृशं मुषितं. अन्यदा तन्नगरे मूलदेवो राजा राज्ये उपविष्टः, स कथं तत्र राजा संवृत | इति तदाख्यानमुच्यते--
उज्जयिन्यां नगर्यां सर्वगणिकाप्रधाना देवदत्ता नामा गणिकास्ति, तस्या गृहेऽचलो नाम व्यव| हारिपुत्रः परदेशायातो भोगान् भुंक्ते, मार्गितमथं च ददाति, तस्या एव गृहे परदेशायातो राजपुत्रो || मूलदेवोऽतिरूपसौभाग्यस्तयैव गुणवृध्ध्या मानितः, अचलः प्रच्छन्नमायाति, भोगानपि च भुंक्ते, सा
तु मूलदेवेन सहैव प्रेमवती बभूव, परमचलस्तत्स्वरूपं न जानाति. एकदा देवदत्ताजनन्योक्तं हे
0000000000000000000
॥१८२॥
For Private And Personal Use Only