________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ १८९ ॥
18000666699 9999990OG
www.kobatirth.org
इति विचित् कुमारोऽपि वैराग्यात्प्रत्रजितः यथासावगडदत्तः प्रतिबुद्धजीवी पूर्वं द्रव्यासुप्तः, पश्चाद्भावासुप्तोऽपीहलोके परलोके च सुखी जातः ॥ ५ ॥
॥ मूलम् ॥ चरे पयाइं परिसंकमाणो । जं किंचि पासं इह मन्नमाणा ॥ लाभंतरे जीवियछूहइत्ता । पच्छा परिन्ना य मलावधंसी ॥ ७ ॥ व्याख्या – साधुः संयममार्गे पदानि धर्मस्थानानि परिशंकमानश्चारित्रदूषणानि विचारयंश्चरेत्, संयममार्गे विहरेत्, किं कुर्वाणः ? यत्किंचिदपि गृहस्थप| रिचयादिकं प्रमादपदं दुश्चिंतनादिकं बंधस्य हेतुत्वात्पाशमिव मन्यमानः पुनः साधुर्लाभांतरे जीवितं बृंहयित्वा पश्चात्परिज्ञाय मलापध्वंसी स्यात्. कोऽर्थः ? एकस्माल्लाभादन्यो लाभो लाभांतरं; तस्मिन् लाभांतरे सति ज्ञानदर्शनचारित्रादीनां लाभविशेषे सति जीवितं शरीरं बृंहयित्वाहार भाटकदानेन धारयित्वा पश्चाल्लाभप्राप्तेरभावं (ज्ञपरिज्ञया ) कृत्वेदं मम शरीरं, अतः परं ज्ञानादिगुणार्जकं नास्तीति परिचिंत्य प्रत्याख्यानपरिज्ञया भक्तं प्रत्याख्यायाष्टकर्मलक्षणमलस्यापध्वंसको निवारकः स्यात्. ॥ ७ ॥ अत्र मंडकचौरोदाहरणमुत्तराध्ययनबृहद्वृत्तिगतं प्राकृतं संस्कृतीकृत्य लिख्यते — वेन्नात
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
900969990983900००००००
सटीकं
॥ १८९ ॥