________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१८४॥
1000000000000000000000
त्पन्ने क्वचिद ग्रामे चलितोऽस्ति, सोऽद्य नायास्यति, तथाप्यद्यदिनसत्कं भाटकं प्रेषितमस्ति, एवमुक्त्वा दीनाराष्टशतं तया देवदत्तादयादत्तं, देवदत्तयापि मूलदेवस्तदानीमेवाकारितः,सोऽप्यागतस्तस्याःशयनीये सुप्त्वा भोगेप्रवृत्तः, तस्यां वेलायां तयाकया मूलदेवदेवदत्तासंभोगस्वरूपमचलस्य ज्ञापितं, अचलोऽपि सपरिवारस्तत्रायातः, देवदत्तातं सपरिवारमायातं दृष्ट्वा मूलदेवं शयनीयाधश्चिक्षेपेतस्ततो वस्त्राणि विस्तारयामास च. अचलस्तु द्वारि सपरिवार मुक्त्वा तद्वासगृहांतर्गत्वा शयनीये उपविष्टः, देवदत्ता तु न किंचिदुवाच नापि तस्य किंचिद्विलेपनायुपचारं चकार. अचलेन शयनीयाधः प्रविष्टो मूलदेवो ज्ञातः, स तस्या इदमूचेऽद्य मयात्रस्थेनैवाभ्यंगननाने करिष्यते, देवदत्तयोक्तंशयनीयवस्त्रविनाशो भविष्यति,स आख्यत्तवपूर्ववस्त्रसहितमपूर्वंशयनीयं दास्यामीत्युक्त्वा तत्रैवाभ्यंगनं स्नानं चकार. तन्मलक्लिन्नो मूलदेवः शय्याधःस्थ इतस्ततश्चलन्नचलेन शयनीयवस्त्रमपसार्य केशेषु गृहीत्वा निष्कासितः, उक्तश्च रे याहि त्वं मया जीवन्नेव मुक्तः, अपराधस्तु तवेदृशोऽस्ति यत्सांप्रतमेव त्वं मया हन्यसे, परं कृपया त्वं मया मुच्यसे, त्वमपि कदाचिन्ममापराधे ईदृशो भूयाः? एवमचलेनोक्ते लजितो मूलदेवः कुमार उज
1000000000000000000000
॥१८
For Private And Personal Use Only