________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
उत्तरा-10 ऽस्ति, स बहुपक्रमेऽपि न दृश्यते. ततः कुमारेणोक्तं राजन्नहं सप्तदिवसमध्ये तस्करकर्षणं चेन्न करोमि ॥१७३॥
तदाग्निप्रवेशं करोमीति प्रतिज्ञा कृता, राज्ञा तु पुरलोकप्राभृतं कुमाराय दत्तं. कुमारस्तत उत्थाय चौरस्थानानि विचारयति, यथा-वेसाण मंदिरेसु । पाणागारेसु जूयहाणेसु ॥ कुल्लूरियवणेसु अ । उजाणनिवाणसालासु ॥१॥ मयसुन्नदेवलेसु अ। चच्चरचउहट्टसुन्नसालासु ॥ एएसु ठाणेसु । | पाएणं तकरो होइ ॥२॥ एवं चौरस्थानानि पश्यतः कुमारस्य षड् दिना गताः, पश्चात्सप्तमे दिने नगराबहिर्गत्वा तरोरधः स्थित एवं चिंतयति--छिज्जउ सीसं अहवा। होउ बंधणं चयउ सबहा लच्छी। पडिवन्नपालणेसु । पुरिसाणं ज होइ तं होउ ॥१॥ एवं चिंतयन्नसौ कुमार इतस्ततो दिगवलोकनं करोति. तस्मिन्नवसरे एकः परिहितधातुवस्त्रो मुण्डितशिरःकूर्चस्त्रिदंडधारी चामरहस्तः किमपि 'बुड् | | बुड्' इति शब्दं मुखेन कुर्वाणः परिव्राजकस्तत्रायातः, कुमारेण दृष्टश्चिन्तितं चायमवश्यं चोरो यतोऽ-18
स्य लक्षणानीहशानि संति, यथा-करिसुंडाभुयदंडो। विसालवत्थलो फरुसकेसो॥ नवजुवणो रउद्दो । रत्तत्थो दीहजंघो य ॥१॥ एवं चिंतयतः कुमारस्य तेन कथितमहो सत्पुरुष ! कुतस्त्वमायातः?
000000000000000000000
1000000000000000000000
१७३॥
For Private And Personal Use Only