________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyarmandie
सटीक
उत्तरा
केन कारणेन च पृथिव्यां भ्रमसि ? तेन भणितमुज्जयिनीतोऽहमत्रायातोऽस्मि, दारिद्यभग्नश्च भ्रमामि.
परिव्राजक उवाच वत्स! मा खेदं कुरु? अद्य तव दारिनं छिनद्मि समीहितमर्थं च ददामि. ततो दिवसं ॥१७४॥
यावत्तौ तत्र स्थितो, रात्रौ कुमारसहितश्चौरः कस्यचिदिभ्यस्य गृहे गतः, तत्र क्षात्रं दत्तवान्, तत्र स्वयं प्रविष्टः, कुमारस्तु बहिः स्थितः, परिव्राजकेन द्रव्यभृताः पेटिकास्ततो बहिः कर्षिताः, ताः क्षात्रमुखे कुमारसमोपे मुक्त्वा स्वयमन्यत्र कुत्रचिद्गत्वा दारिद्यभन्नाः पुरुषा अनेके आनीताः, तेषां शिरस्सु ताः पेटिका दत्वा कुमारेण समं स्वयं बहिर्गतः, स तापसः कुमारं प्रत्येवमुवाच कुमार! क्षणमात्रं वने तिष्टामः, निद्रासुखमनुभवामः, परिव्राजकेनेत्युक्ते सर्वेऽपि पुरुषास्तत्र सुप्ताः, कपटनिद्रया परिव्राज कोऽपि सुप्तः, कुमारोऽपि नैतादृशानां विश्वासःकार्य इति कपटनिद्रयैव सुप्तः, तावता स परिव्राजक उत्थाय तान् सर्वान् कंकपत्र्यामारयामास, यावत्कुमारसमीपेसमायाति, तावत्कुमार उत्थाय तं खड्गेन जंघाद्वये
जघान, छिन्ने जंघाद्वये स तत्रैव पतितः कुमारंप्रत्येवमुवाच हे वत्साहं भुजंगनामा चोरः, ममेह इम18 शाने पातालगृहमस्ति, तत्र वीरपत्नी नाम्नी मम भगिन्यस्ति. अथ वटपादपस्य मूले गत्वा तस्याः
100000000000000000000
505664000-46006086000
॥१७४.
For Private And Personal Use Only