________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
DE00000OOOOஸ
च नूनमेभिर्लक्षणैरयं चौर एवेति, भणितं च तेन परिव्राजकेन वत्स! कुतस्त्वमायातः? किं निमित्तं च भ्रमसि? कुमारेण भणितं भगवन्नहमुज्जयिनीतोऽत्रागतः, क्षीणविभवो भ्रमामि, तेन भणितं पुत्र तवाहं विपुलमर्थं ददामि, अगडदत्तेन भणितं त_यमनुग्रहः कृतः, संतो हि निःकारणमुपकारिणः स्युः. एवं तयोरभिलापं कुर्वतोरेव सूर्योऽस्तं गतः, रात्रौ तेन त्रिदंडाच्छस्त्रं कर्षितं, बद्धः कच्छः, नगरी याम इति वदन्नेवमुत्थितः, सोऽगडदत्तोऽपि साशंकस्तमनुगच्छति, चिंतयति चैष एव स तस्कर इति द्वावपि प्रविष्टौ नगरी, तत्रातिप्रेक्षणीयमतीवोन्नतं कस्यापीभ्यस्य गृहं दृष्टं, तत्र क्षात्रं दत्तं, परिव्राजकस्तन्मध्ये प्रविष्टः, अगडदत्तो बहिःस्थश्चिंतयति चौरस्तु मया ज्ञातः, परमस्य स्वरूपं सर्व तावत्पश्यामोति परिव्राजकेनानेकभांडभृताः पेट्य एव कर्षिताः, अगडदत्तसमीपे ताः स्थापयित्वा गतो देवकुले, ततोऽनेके भारवाहिन आनीतास्तेषां शिरसि ताः स्थापिताः, सर्वेऽपि गताः पुराहहिः, तापसः कुमारंप्रत्याह हे पुत्रात्र जीणोंद्याने निद्रासुखमनुभवामः, इत्युक्त्वा सर्वेऽपि सुप्ता निद्राणाश्च. परिव्राजकश्च कपटनिद्रया सुप्तः, अगडदत्तस्तु नैतादृशानां विश्वासः कार्य इत्यवधार्य क्षणं कपटनि
909990@@Des@doe
For Private And Personal Use Only