________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥ १६८ ॥
300000000000000
|| स्तोककालेनैव कलासु कुशलः कृतः. अन्यदा राजकुले प्रेषितः, तेन सभायां दर्शिताः कलाः, चमत्कृतः |
सकलोऽपि लोकः पुनः पुनः साधुवादमवदत् , राजा तु नास्ति किंचिदाश्चर्यमिति वदन्न किंचिदधिकमुवाच, उत्तिताचारपालनायेदं पुनरुवाच कुमार! तुभ्यं किं ददामि? कुमार आह हे राजंस्त्वं साधुकारमपि न दत्से ? किमन्येन दानेनेति. अस्मिन्नेवावसरे राजा पोरै रेवं विज्ञप्तः, हे राजन् ! भवत्पुरेऽश्रुतपूर्व चौरेण द्रव्यापहरणं वारंवारं क्रियमाणमस्ति, एवं च राजलज्जा न तिष्टति, ततो नगररक्षायत्नः क्रियतां ? तदैव राज्ञा तलारक्ष आज्ञप्तः सप्ताहोरात्रमध्ये यथा चौरो गृह्यते तथा कर्तव्यं, तदानीं तत्रस्थोऽगडदत्तः प्राह राजन् ! अहं सप्ताहोरात्रमध्ये चौरं तव चरणमूलमुपनेष्यामि, राज्ञा तद्वचोंगीकृतं, एवं कुर्विति वारंवारमुक्तं. ततो हृष्टोऽगडदत्तो राजकुलान्निर्गत्य चिंतयति दुष्टपुरुषाश्च प्रायः पानीयस्थाने नानाविधलिंगधारिणो भ्रमंतीत्यहं तच्छद्धये तटाकोपवनेषु यामीति चिंतयित्वा नगराइहिरेक एवैकस्य शीतलच्छायस्य सहकारपादपस्य तले मलिनांबर उपविष्टः, चौरग्रहणोपायं च चिंतियन्नस्ति, तस्यैव छायायामायात एकः परिव्राजकः स्थूलजानुर्दीघजंघः, कुमारेण दृष्टश्चिंतितं
000000000000000
१६८॥
For Private And Personal Use Only