________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटीक
॥१७०॥
@@@@@@@@
00000000000000000000
द्रया सुप्त्वा तत उत्थाय वृक्षांतरितः स्थितः, तान् पुरुषान् निद्रावशगतान् ज्ञात्वा स परिव्राजकः कंकपत्र्या मारितवान् , अगडदत्तस्त्रस्तरे च समागत्य तं तत्रापश्यन् पश्चादलितस्तावतागडदत्तेन तदंतिके समागत्य खड्गप्रहारेण प्रकामं हतः पतितः पृथिव्यां. ततः सोऽगडदत्तंप्रत्याह वत्स ! गृहाणेमं
मम खड्गं ब्रज इमशानस्य पश्चिमे भागे? तत्र भूमिगृहे भित्तो स्थित्वा शब्दं कुर्याः ? तत्र मम भगिनी है वप्तति, तस्या इमं मम खड्गं समर्पयेः, ततः संकेतकथनात्सा ते भार्या भविष्यति, सर्वद्रव्यस्वामी
त्वं भविष्यसि, अहं तु गाढप्रहारान्मृत एवेति. मत्स्वरूपं च तां कथयेः ? ततोऽगडदत्तः खड्गमादाय तत्र गतः, शब्दिता सा आयाता, तेन दृष्टातीवरूपवत्यवदत् सा कुतस्त्वमायातः ? स प्राह गृहाणेमं खड्गं? तदर्शनमात्रेणैव तया सर्व तस्य स्वरूपं ज्ञातं,मनस्येव शोकनिगृहनं कृतं, अगडदत्तस्तद्गृहाभ्यंतरं नीतः, दत्तमासनं, तत्र स उपविष्टः, तया विशिष्टादरेण शय्या रचिता, भणितं च स्वामिन्नत्र विश्राम्यतां? तयेत्युक्ते सुप्तस्तत्रागडदत्तः, सा गृहाइहिर्निर्गता, तावतागडदत्तेन चिंतितमस्या अपि विश्वासो नैव कार्य इत्युत्थाय शय्यातोऽन्यत्र गृहकोणे स्थितः सः, तया तु तच्छय्योपरिष्टात्पूर्व यंत्र
@@@@
Đọc ose@
0॥१७॥
For Private And Personal Use Only