________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
00
सटीक
॥१३॥
5000000000000000000004
गुरुरारोपितः, उच्चनीचप्रदेशे मागें वहता तेन गुरुः खेद उत्पादितः, खिन्नेव तेन गुरुणाऽस्यै शिरसि दंडप्रहारा दत्ताः, असौ मनस्येवं विचारयत्यहो महात्मायं मयेदृशीवस्था प्रापित इति सम्यग्भावयतस्तस्य केवलज्ञानमुत्पन्नं, केवलज्ञानबलेन समप्रदेश एव वहन् गुरुभिरेष उक्तः, मारिः सार इति कीःशः समो वहन्नसि? तेनोक्तं युष्मत्प्रसादान्मे समं वहनं, गुरुभिरुक्तं किंरे ज्ञानं समुत्पन्नं तव? तेनोक्तं ज्ञानमेव, गुरुभिरुक्तं प्रतिप्रात्यप्रतिपाति? तेनोक्तमप्रतिपाति, गुरवस्तु हा मया केवली आशातितः, इत्युक्त्वा तच्छिरसि दंडप्रहारोभृतं रुधिरप्रवाहं पश्यंतः पुनः पुनस्तत् क्षामणं कुर्वतः केवलज्ञानमापुरिति विनीतशिष्यैरीशैर्भाव्यं. ॥ १३ ॥
॥मूलम् ॥-नापुट्ठो वागरे किंचि । पुट्ठो वा नलियं वए ॥ कोहं आसच्चं कुविज्जा । धारिजा पियमप्पियं ॥ १४ ॥ व्याख्या-सुविनीतशिष्योऽपृष्टः सन्न किंचिद्व्याकुर्यात् व्यागृह्णीयात्, न किंचिदपृष्टो वदेत्, अथवाऽपृष्टोऽल्पं पृष्टोऽपृष्टः सन् विनीतः किमपि न व्यागृणीयात्, अपृष्टोऽल्पमपि न ब्रूयादिति भावः, अथवा पृष्टः सन्नलीकं न वदेत्. पुनः क्रोधमसत्यं कुर्यात्, गुरुभिर्निर्भसितः कदाचित्स
0066000000000000000
For Private And Personal Use Only