________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ १६५ ॥
96696986069966839650
www.kobatirth.org
तमोहे । नेयाउयं दहुमदङ्कुमेव ॥ ५ ॥ व्याख्या - प्रमत्तः प्रमादी मनुष्यो वित्तेन द्रव्येण कृते ' इमंमि लोए' अस्मिन् लोकेऽथवा परलोके त्राणं स्वकृतकर्मतो रक्षणं न लभेत न प्राप्नुयात्, वेश्यागृहस्थपुरोहितपुत्रवत्
कस्मिंश्चिन्नगरे कोऽपि राजा इंद्रमहोत्सवे सांतःपुरो निर्गच्छन् निर्घोषं कारयामास सर्वे पुरुषा | नगराइहिरायांतु ? योऽत्र स्थास्यति तस्य महादंडो भविष्यति, तत्र राजवल्लभः पुरोहितपुत्रो वेश्यागृहे प्रविष्ट निर्घोषणां श्रुत्वापि न निर्गतः, राजपुरुषैर्गृहोतोऽप्यसौ राजवल्लभत्वेन दर्पं कुर्वन्न तेभ्यः किंचिद्ददौ, तैस्तु राजसमीपे नीतः, राज्ञा त्वाज्ञाभंजकत्वेनास्य शूलादंडः कथितः, पुरोहितेन तत्पित्रा सर्वस्वमहं ददामीत्युक्तं तथापि राज्ञायं न मुक्तः, शूलायामेवारोपित इति. दोपप्रणष्टः प्रणष्टदीपः पुरुषो भावोद्योतरहितः पुरुषो यथा नैयायिकं सम्यग्दर्शनादितत्वं दृष्ट्वाऽदृष्टमिव करोति, कीदृशः प्रणष्टदीपः पुरुषः ? अनंतमोहः, अनंतोऽविनाशी मोहो दर्शनावरणमोहनीयात्मको यस्य सोऽनंतमोहः, एतादृशोऽज्ञानीत्यर्थः, अत्र प्राकृतत्वात् षष्ठ्यर्थे प्रथमापि, प्रणष्टदोपस्य प्रणष्टसम्यक्त्वम्य, अनंत
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
3099999999999999999990
सटीकं
॥ १६५ ॥