________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kalassagersuri Gyarmandie
@@
उत्तरा
सटीकं
@@@
॥ १६६॥
DOO0000GOO6000000000
o मोहस्योदितमिथ्यात्वस्य नैयायिकं सम्यग्दर्शनतत्वं लब्धमलब्धमिव स्यात्, प्रातं सम्यक्त्वमप्राप्तमिव
स्यात् , तदर्शनफलस्याभावात्. लब्धास्य सम्यक्त्वस्य हानितोऽलब्धमेव, न केवलं प्रमादी पुमान् विलेन त्राणं न लभेत, किंतु प्रमादो त्राणकारणं नरकादिभयनिवारणहेतुं सम्यग्ज्ञानादिरत्नत्रयमपि हंतीत्यर्थः. अत्र खनिप्रविष्टधातुर्वादी पुरुषो यथा प्रणष्टदीपो जातः, तस्य दृष्टपूर्वोऽपि मार्गोऽदृष्टवजातः, अत्र तत्कथा-केचिद्धातुर्वादिनः सदीपाः सैंधवा बिलं प्रविष्टाः, तत्प्रमादादीपे विध्याते महातमोमोहिता इतस्ततो भ्रमंतः प्रचंडेन विषधरेण दष्टा गर्तायां पतिता मृताः, एवं प्राप्तसम्यक्त्वा अपि महामोहवशात्पुनर्मिथ्यात्वं गच्छंतीति परमार्थः.
॥ मूलम् ॥-सुत्तेसुयावी पडिबुद्धजीवी । न वीससे पंडिय आसुपन्ने ॥ घोरा महत्ता अबलं सरीरं । भारंडपक्खीव चरप्पमत्तो॥६॥ व्याख्या–प्रतिबुद्धजीव्यनिद्रोऽप्रमादी पुमानन्येषु सुप्तेष्वप्यविवेकिनरेषु निद्रायुक्तेषु सत्स्वपि न विश्वसेद्विश्वासं नैव कुर्यात् , कीदृशः सः? आशुप्रज्ञः तत्कालयोग्यबुद्धिमान् , आशु शीघ्र कार्याकार्येषु प्रवृत्तिनिवृत्तिरूपा प्रज्ञा मतिर्यस्य स आशुप्रज्ञः, यतो
Đt 06003@
॥१६६॥
For Private And Personal Use Only