________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१६०॥
000000000000000000000
पुत्र ! तांगे व प्रहारा लग्नास्तेन स्वांगप्रहारस्थानानि दर्शितानि, अट्टणेनौषधीरसेन तानि स्थानानि तथा मर्दितानि, यथासौ पुनर्नवीभृतः. मत्सीमल्लस्यापि राज्ञा पृष्टं व तांगे प्रहारा लग्नास्तत्स्थानं दर्शय ? फलहीमल्लः पुनर्नवीभूतः श्रूयते, मत्सीमल्लोऽभिमानान्न स्वस्थानं दर्शयति, वक्ति चाहं पुनर्नवीभूतः फलहीपितरं जयामि. द्वितीयदिवसे पुनयुद्धावसरे द्वयोरपि साम्यमेव जातं, तृतीयदिवसे मत्सीमल्लो जितः, फलहीमल्लेनादृणेन च स्वपराभवः स्मारितः, ततो मत्सीमल्लेनान्याययुद्धेन फलहीमल्लस्य मस्तकं छिन्नं, खिन्नोऽदृणमल्लो गत उज्जयिनी, तत्र विमुक्तयुद्धव्यापारः स्वगृहे तिष्टति, परं जराक्रांत इति न कस्मैचित्कार्याय क्षम इति वजनैः पराभूयते. अन्यदा स्वजनापमानं दृष्ट्वा तदनापृच्छयैव कौशांबी नगरी गतः, तत्र वर्षमेकं यावद्रसायनं भक्षितवान् , ततः सोऽत्यंतं बलवान् जातः. उज्जयिन्यां राजपर्षदि मल्लमहे प्रवर्तमाने पुनर्नवागतयौवनेनाट्टणमल्लेन समागत्य राज्ञो नीरंगणनाम महामल्लो जितः, राज्ञा तु मदीयोऽयं मल्ल आगंतुकेनानेन मल्लेन जित इति कृत्वा न प्रशंसितः, लोकोऽपि राजप्रशंसामंतरेण मोनभाग्जातः, अट्टणस्तु स्वस्वरूपज्ञापनार्थं सभापक्षिणः
0000000000000000000004
॥१६०॥
For Private And Personal Use Only