________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kalassagersuri Gyarmandie
उत्तरा
सटीक
>000000000000000000000
सिंहगिरिराज्ञः सभायां मल्लान् विजित्य जयपताका लाति. अन्यदा राज्ञैवं चिंतितं परदेश्योऽयमट्टणमल्लो मत्सभायां जित्वा बहु द्रव्यं प्राप्नोति, मदीयःकोऽपि मल्लो न जीयते, नैतद्वरं. एवं हि मभैव महत्त्वक्षतिर्जायते, इति मत्वा कंचिदलवंतं मसिनरं दृष्ट्वा स्वमलं चकार, तस्य त्वरितमेव मल्लविद्याः समायाताः, मत्सीमल्ल इति नाम कृतं. अन्यदादृणमल्लः सोपारके समायातस्तेन समं राज्ञा मत्सोमल्लस्य युद्धं कारितं, जितो मत्सीमल्लः, अट्टणः पराजितः, खनगरे गत एवं चिंतयति मत्सीमल्लस्य तारुण्येन बलवृद्धिर्मम तु वार्धक्येन बलहानिः, ततोऽन्यं स्वपक्षपातिनं मल्लं करोमि. ततोऽसौ बलवंतं पुरुषं विलोकयन् भृगुकच्छदेशे समागतः. तत्र हरिणीग्रामे एकः कर्षक एकेन करेण हलं वाहयन् द्वितीयेन फलहीयमुत्पाटयन् दृष्टः, स भोजनाय स्वस्थानके साथ नोतः, तस्य बह भोजनं दृष्टं, उत्सर्गसमये च सुदृढमल्पं पुरीषं दृष्ट्वा मलविद्या ग्राहिता, फलहीमल्ल इति नाम कृतं, अट्टणः सोपारके फलहीमल्लं गृहीत्वा गतः, राज्ञा मत्सीमल्लेन समं फलहीमल्लस्य युद्धं कारितं, प्रथमे दिवसे द्वयोः समतव जाता, अट्टणेन स्वोत्तारके फलहीमल्लः पृष्टो हे
000000000000000000000
॥१५९॥
For Private And Personal Use Only