________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ १५८ ॥
1999999999999999999999
www.kobatirth.org
इति वितकें, कीदृशा विहिंस्राः ? अजिता अजितेंद्रियाः, पुनः कीदृशाः ? प्रमत्ताः प्रमादिनः, इंद्रियवशवर्तिनां प्रमादिनां पापानां जरामरणाद्युपद्रवे कश्चिच्छरण्यो नास्ति, 'जणे पमते ' इति प्रथमा बहुवचनस्थाने प्राकृतत्वात्समप्येकवचनं ॥१॥
॥ मूलम् ॥ — जे पावकम्मेहिं धणं मणूसा । समाययंती अमई गहाय ॥ पहाय ते पासपय हिए नरे । बेराणुबद्धा नरयं उविंति ॥ २ ॥ व्याख्या - जे इति ये मनुष्याः पापकर्मभिर्धनमर्जयंति, धनमुत्पादयंति, ते मनुष्या वैरानुबद्धाः, पूर्वोपार्जितद्वेषबंधनबद्धा नरकं व्रजंति, किं कृत्वा धनमुपाजयंति ? अमतिं गृहीत्वा न मतिरमतिस्ताममतिं कुमतिमंगीकृत्य, अथवाऽमृतमानंदहेतुं गृहीत्वैहिकसुखहेतुकं धनं विचार्य, किं कृत्वा नरकं व्रजंति ? पापकर्मभिरुपार्जितं धनं प्रहाय त्यक्त्वा, कीडशास्ते मनुष्याः ? पाशप्रवर्तिताः, पाशेषु पुत्रकलत्रधनप्रमुखबंधनेषु प्रवर्तिताः प्राशप्रवर्तिताः, धनं नरके व्रजत जीवस्य सार्थे नायाति, एकाक्येव महारंभपरिग्रहवशाय नरकं पातीत्यर्थः, 'जरोवणीयस्स हु नत्थि ताणं ' अत्र कथा - उज्जयिन्यां जितशत्रुनृपस्याट्टणमल्लो वर्तते, स च प्रतिवर्षं सोपारके गत्वा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
9000000000000000000 00
सटीकं
॥ १५८ ॥