________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटीकं
॥१५५॥
100000000000000000000
॥ १७ ॥ व्याख्या-ते देवास्तत्रोत्पद्यते, तत्र कुत्र ? यत्र चत्वार एते कार्यस्कंधा भवंति, तत्र कुत्र ? | यत्र क्षेत्रं सम्यग्भवति ग्रामारामादिकं, अथवा सेतुकेतुभयात्मकं १, यत्र वास्तुगृहं सम्यग्भवति २, | यत्र हिरण्यं सुवर्ण रुप्यं वा ३, यत्र पशवो घोटकहस्त्यादयः · दासपोरुसं' चेटकचेटीपत्तिप्रमुखादिकं ४, चत्वार एते स्कंधा वर्तते. काममनोज्ञशब्दादयस्तेषां हेतवः स्कंधास्तत्पुद्गलसमूहाः, अनेनैकमंगमुक्तं. ॥ १७ ॥
॥ मूलम् ॥-मित्तं व जाइवं होइ । उच्चागोए अ वण्णवं ॥ अप्पायंके महापन्ने । अभिजाए जसो बले ॥ १८ ॥ व्याख्या-मित्राणि विद्यते यस्य स मित्रवान् १, ज्ञातिर्विद्यते यस्य स ज्ञातिवान्
खजनवान् २, पुनरुच्चैगोत्रं यस्य स उच्चैगोत्रः ३, पुनर्वर्णवान् शरीरे सद्वर्णयुक्तः४, पुनरल्पातंकोऽल्पा| तंको यस्य सोऽल्पातंकः ५, पुनः कीदृशः ? महाप्रज्ञो महती प्रज्ञा यस्य स महाप्रज्ञो महाबुद्धिः ६, अभिजातो विनीतः ७, पुनर्यशस्वी ८, पुनर्बलीबलवान् ९, 'जसो बले' इत्युभयत्र मत्त्वर्थीययलोपः. अंगनकमिहोतं.॥ १८॥
0000000000ccec0000000
For Private And Personal Use Only