________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailasagarsuri Gyarmandie
उत्तरा
सटीकं
॥१५०॥
900000000000000000
अन्यदा गुरुभिर्व्याख्यायां जिनकल्पिका वयंते, जिनकल्पिका द्विविधाः पाणिपात्राः पतग्रहधराश्च, सप्रावरणा अप्रावरणाश्चेत्यादिजिनकल्पिकमागों वर्णितः, सहस्रमल्लेन पृष्टं किमसौ मार्गः सांप्रतं न क्रियते ? गुरुभिरुक्तं स मार्गः सांप्रतं व्युच्छिन्नाऽस्ति, तेनोक्तं यथेष मागोऽनुष्टीयते, तदा नास्त्यस्य 8 व्युच्छेदः, परलोकार्थिनैष एव मार्गोऽनुष्टेयः, सर्वथा निःपरिगृहत्वमेव श्रेयः, सूरिभिरुक्तं धर्मोपकरणमेवेति न तु परिग्रहः, तथाहि-जंतवो बहवः संति। दुर्दश्या मांसचक्षुषां ॥ तेभ्यः स्मृतं दयार्थ तु। रजोहरणधारणं ॥ १॥ आसने शयने स्थाने । निक्षेपे ग्रहणे तथा ॥ गात्रसंकुचने चेष्टं । तेन पूर्व प्रमार्जनं ॥२॥ तथा संपातिमाः सत्वाः । सूक्ष्माश्च व्यापिनोऽपरे ॥ तेषां रक्षानिमित्तं च । विज्ञेया मुखवस्त्रिका ॥३॥ भवंति जंतवो यस्मा-दन्नपानेषु कुत्रचित् ॥ तस्मात्तेषां परीक्षार्थं । पात्रग्रहणमिष्यते ॥४॥ अपरं च-सम्यक्त्वज्ञानशीलानि । तपश्चेतीह सिद्धये ॥ तेषामुपग्रहार्थाय। स्मृतं चीवरधारणं ॥५॥ शीतवातातपैर्दशै-मशकैश्चापि खेदिताः ॥ मा सम्यक्त्वादिषु ध्यानं । न सम्यक संविधास्यति ॥६॥ तस्य त्वग्रहणे यस्मा-शुद्रप्राणिविनाशनं ॥ ज्ञानध्यानोपयानो
SO900000000000004
॥१५॥
For Private And Personal Use Only