SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं ॥१४९॥ 50000000000000000000 यावद् गृहे नायाति तावत्तस्य भार्या न भुंक्ते, रात्रौ यावन्नायाति तावन्न स्वपिति. अन्यदा सा प्रकामं खिन्ना श्वश्रूःप्रत्याह हे मातस्त्वत्पुत्रोऽर्धरात्रे कदाचिदायाति, कदाचिदंत्यप्रहरे समायाति, कदाचिन्नायात्यापि, दिवसेऽपि रात्रावपि चायमकाल एव समायाति, अहं निद्रार्ता क्षुधार्ता च तिष्टामि, तदा श्वश्वा भणितमद्य त्वया द्वारं दत्वा शयनीयं, अहं जामती स्थास्यामि, तद्दिवसे रात्रौ तथैव कृतं, स मध्यरात्रौ समायातः, द्वारमुद्घाटयेत्युक्तवान्. मात्रा भणितं यत्रास्यां वेलायां द्वाराण्युद्घटानि भवंति तत्र व्रज ? स रोषान्निर्गतः, कृष्णाचार्योपाश्रय एवोद्घाटितो दृष्टः, मध्ये प्रविष्टः, वंदित्वा भणति मां प्रव्राजयत? आचार्या नेच्छंति, तेन स्वयमेव लोचः कृतः. ततस्तस्याचार्येलिंगं दत्तं, आचार्यास्तमादाय ततो विहृताः, कालांतरेण तत्रैव पुनरायाताः, राजा तद्वंदनार्थमायातः, गुरूननुज्ञाप्य सहस्रमल्लः स्वगृहे आकारितः, तस्य स्वगृहागतस्य रत्नकंबलं राज्ञा दत्तं, सोऽपि गुरुसमीपे समायातः, गुरुभिस्तद्रत्नकंबलमनापच्छ्य गृहीतं ज्ञात्वा सहस्रमल्ले उपाश्रयाबहिर्निर्गते सति रत्नकंबलं खंडशः कृत्वा यतीनां पादपोंछनानि कृत्वा दत्तानि, स आगतः, तत्स्वरूपं ज्ञातं; सकषाय एव स्थितः. Docebs000000000000000 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy