SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीकं १४८॥ 5000000000000000000000 रात्रो श्मशाने, इदं मद्यमयं पशुः स्वबलिदेंयः, तद् द्वयं गृहीत्वा स तत्र गतः, अन्ये पुरुषास्तद्भापनार्थ प्रच्छन्नवृत्या पश्चात् प्रेषिताः, सहस्रमल्लेन क्षुधातेन पशुं निहत्य तन्मांसं भक्षितं, मद्यं च पीतं, तैः पुरुषैः शिवाफेत्कारशब्दै पितो न बिभेति, पश्चादागत्य सहस्रमल्लेन राज्ञ उक्तं, मया बलिदत्तः, सेवकैरपि तद्वीरत्वमुक्तं, राज्ञा स्वसेवायां रक्षितः. व अन्यदा राज्ञा मथुराग्रहणार्थ स्वसेवकाः प्रेषिताः, तैः समं सहस्रमल्लोऽपि प्रेषितः. मार्गे गच्छद्भिस्तैः परस्परमुक्तं भो आत्मभिः सम्यग् राज्ञो न पृष्टं, का मथुरा ग्राह्येति. सहस्रमल्लेनोक्तं द्वे अपि मथुरे ग्राह्ये, यत्र दुष्करं तत्राहं यास्यामि, एवमुक्त्वा स गतः पांडुमथुरायां, गृहीता च सा बलेन, उक्तं च-सूरे त्यागिनि विदुषि च । वसति जनः स च जनाद्गुणी भवति ॥ गुणवति धनं धनाच्छ्रोः । श्रीमत्या जायते राज्यं ॥१॥ नगरी गृहीत्वा स पश्चादायातः, राज्ञा तुष्टेन भणितं हा भो तुष्टोऽहं मार्गय मनोऽभीष्टं ? ततस्तेनोक्तं मम देहि सर्वत्र स्वेच्छाभ्रमणं? दत्तं राज्ञा. अथासौ | निरंतरं स्वेच्छया सर्वत्र भ्रमन् रात्रौ मध्याह्नेऽत्यप्रहरे वा समायाति, कदाचिन्नायात्यपि स्वगृहे, दिवसे D80000000069800609000€ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy