________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१४६॥
Đossssssssssssseo
संभवात, प्रत्याख्यानं निरवधिक कार्य, तथाहि-सव्वं पाणाइवायं पञ्चक्खामि, अपरिमाणए तिविहं तिविहेणं, एवं प्रत्याख्यानं कार्य, गोष्टामाहिल्लेनैवमुक्त विज्झादिशिष्याः सूरीन् प्रश्नयंति, सूरयः प्राहुः प्रत्याख्यानस्य कालावधिकत्वमवश्यं कार्य, अन्यथा मर्यादापत्त्याऽकार्यत्वमेव स्यात्, | परलोकाशंसासंभवेन भंगो नैव स्यात्, जीवन्नहं सावद्यं न सेविष्ये, मृतस्य ववश्यं भाविन्यरति| रिति यथोक्तनिर्वाहित्वेन न प्रत्याख्यानभंगः. एवं श्रीदुर्बलिकापुष्पोक्तं सर्वैरप्यंगीकृतं, अन्ये फल्गुरक्षितादयः स्थविरा एवमेव भणंति, गोष्टामाहिल्लस्तु सर्वेऽप्येते न किंचिज्जानंतीति वदति, खोक्तमेव तीर्थंकरोक्तमिति स्थापयति, आचार्योक्तं स्थविरोक्तं च न मन्यते, तदा समस्तसंघेन शासनदेव्याः | कायोत्सर्गः कृतः, सा समागता भणति किं देशयति संघः ? संघेनोक्तं ब्रज श्रीसीमंधरतीर्थकरपावे ? एवं च पृच्छ यद्गोष्टामाहिल्लो भणति तत्सत्यमुत यदुर्बलिकापुष्पादयो भणंति तत्सत्यं ? मम पुनः कायोत्सर्गबलं ददत ? संघेन पुनः कायोत्सर्गः कृतः, सा गता भगवत्समीपे, भगवन् पृष्टः संघोक्तं, भगवान् प्राह दुर्बलिकापुष्पादयः सम्यग्वादिनः, गोष्टामाहिल्लस्तु मिथ्यावादी निहवः सप्तम इति
3000000000000000000000
॥ १४६॥
For Private And Personal Use Only