________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
उत्तरा
सटीक
॥१४५॥
000000003800900900000
कथं तर्हि कर्म बद्धं स्पृष्ट निकाचितं भवति? स आह यथा कंचुकः कंचुकिशरीरं स्पृशति, तथा कर्मात्मप्रदेशान् स्पृशति, न पुनः क्षीरनीरन्यायेन तत्कर्मात्मप्रदेशैः सह बद्धस्पृ निकाचितत्वभावेन क्षीरनीरवदेकीभावमापद्यते, तथात्वे हि कर्मव्युच्छेद एव न स्यादिति गोष्टामाहिल्लवचः श्रुत्वा विज्झशिष्यः प्राह भो गोष्टामाहिल्ल ! दुर्बलिकापुष्पाचार्याः पूर्वोक्तमेवादिशंति, गोष्टमाहिल्लः प्राहेमं तेन जानंति, पुनर्विज्झशिष्यः सूरीन् प्रश्नयति, सूरिभिरुक्तं गोष्टामाहिल्लवचनमसत्यमेव, यथास्माभिरुक्तं तथैव श्रीगुरुभिरुक्तं, तत्र दृष्टांतः
यथा यः पिंडे वह्निः सर्वात्मना संबध्यते वियुज्यते च, तथात्मप्रदेशैः सह कर्म संबध्यते वियु8 ज्यते चेत्यादि दृष्टांतयुक्त्यादिभिर्बद्धस्पृष्टनिकाचितकर्मस्थापना कृता, परं गोष्टामाहिल्लो न मन्यते.
अन्यदा नवमे पूर्वे प्रत्याख्यानाधिकारं गुरवः साधूनामेवं पाठयंति-साहणं जावज्जीवाए तिविहं तिविहेण पाणाइवायं पच्चक्खामि, एयं पच्चक्खाणं वन्निज्जइ, इत्याद्याचार्येणोक्ते गोष्टामाहिल्लः प्राह 'जावजीवाएत्ति' न वक्तव्यं, एवमुक्ते प्रत्याख्यानस्य सावधिकत्वेन परलोकाशंसाभवनेन भंग
3OG9000000000000000000
For Private And Personal Use Only