________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१४४॥
000000000000000000000
पिताः कथं पृथगुपाश्रये स्थिताः ? अत्रैव तिष्ठंतु, किंतु स नेच्छति, आचार्योपाश्रयान्निर्गत्य स्वोपाश्रये गतः. अथ गोष्टामाहिल्लो पृथक् स्थितो जनान् व्युग्राहयति, परं न कोऽपि तद्वचः प्रतिपद्यते. अन्यदा दुर्बलिकापुष्पसूरयोऽर्धपौरुषी कुर्वति, सर्वे साधवः शृण्वंति,साधुभिराकारितोऽपि गोष्टामाहिल्ल-10 स्तत्र नायाति, न शृणोति च, यूयमेव निष्पापघटसमोपेऽर्धपौरुषीं कुरुत ? अर्धपौरुषीं कृत्वाचार्येषत्थितेषु विज्झनामशिष्योऽनुभाषते, अष्टमेकर्मप्रवादे पूर्वे कर्म प्ररूप्यते, तत्र जीवस्य कर्मणः कथं बंधः? आचार्या भणंति बद्ध १ स्पृष्ट २ निकाचित ३ भेदैरात्मकर्मणोबंधः, तत्रात्मप्रदेशैः सहामतंतुबद्धसूचिकलापवहद्धं कर्म भवति, निकाचितं तु नापितकुहितसूचीकलापवद्भवति, प्रथमं हि जीवो रागद्वेषपरिणामैः कर्म बध्नाति, पश्चात्परिणामममुंचंस्तत्कर्म स्पृष्टं करोति, तेनैवात्यंतसंक्लिष्टपरिणामेन निकाचितं निरुपक्रमं करोति तद्धि उदयगतमेव वेद्यते, इति विज्झणनामशिष्यकृतप्रश्नस्योत्तरं दुर्बलिका पुष्पाचार्यैः कृतं, आसन्नोपाश्रयस्थेन गोष्टामाहिल्लेन श्रुतं, तत्रैव स्थितेन तेनोक्तमीहक्षमस्माभिर्गुरोः समीपे न श्रुतं, यद्येवं कर्म बद्धं स्पृष्टं निकाचितं स्यात्तदा मोक्षो न स्यात् . तदा विज्झनामशिष्यो वक्ति
0999990000000000000
॥१२॥
For Private And Personal Use Only