________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ १४३ ॥
998601
900000000091
www.kobatirth.org
त्यहं निष्पापघटसदृशो जातः, यथा निष्पापघटान्निष्पापा अपनीयंते, तदा नैकोऽपि तत्र तिष्टति, तथा यदा मया दुर्बलिकापुष्पः पाठितस्तदास्य कोष्ठे सर्वा विद्याः क्षिप्ताः, नैकापि विद्या रक्षितास्तीत्यार्यरक्षिकसूरिणोक्ते संघः प्राह भगवन् ! दुर्बलिकापुष्प एवाचार्यः क्रियतां ? तस्यैव सर्वविद्यास्पदत्वेन योग्यत्वात् तदा संघवचः श्रुत्वार्यरक्षितसूरिभिः स्वपट्टे दुर्बलिकापुष्पसूरिः कृतः, उक्तं च दुर्बलिकापुष्पस्य हे वत्स ! यथाहं फल्गुरक्षित गोष्टामाहिलादीनां लालनपालनविधौ प्रवृत्तस्तथा त्वयापि प्रवर्तितव्यं, फल्गुरक्षितादीनामपि गुरुणोक्तं यथा भवंतो मत्सेवाविधी प्रवृत्तास्तथा दुर्बलिकापुष्पस्यापि प्रवर्तितव्यं, अपि चाहं सेवाविधौ कृतेऽपि न रोषं गतः, असौ तु न क्षमिष्यतीति सम्यक् प्रवर्तितव्यं, | द्वयोरपि पक्षयोरेवमुक्त्वानशनं कृत्वा श्रीआर्यरक्षितसूरिर्देवलोकं गतः गोष्टामाहिल्लेन श्रुतं गुरोर्देवलोकगमनं, त्वरितं तत्र समायातो जनान् पृच्छति को गणधरः स्थापितः ? जनैस्तु धृतघटादिदृष्टांतप्रतिपादनपूर्वं दुर्बलिकापुष्पो गणधरः कृत इति प्रोक्तं. गोष्टामाहिल: पृथगुपाश्रये कियत्कालं स्थित्वा वस्त्रादि मुक्त्वा दुर्बलिकापुष्पोपाश्रये समागतः सर्वैरपि साधुभिरभ्युत्थानं कृतं, आचार्येणाला
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
6666009999996903990008
सटीकं
॥ १४३ ॥