________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
सटीक
॥१४२ ॥
वीरात्पंचशतचतुरशीतिवर्षेषु गतेषु दशपुरे ईक्षुगृहोद्याने आर्यरक्षितसूरिः समायातः, तस्य 18 गोष्टशमाहिलः १, फल्गुरुक्षितः २, दुर्बलिकापुष्पश्चेति ३ शिष्यत्रयं वर्तते, इतश्च मथुरायामक्रियावा
दुत्थितः, तत्र प्रतिवादी कोऽपि नास्तीति तत्रत्यसंघेनार्यरक्षितसूरेापितं, तैश्च तत्र गोष्टामाहिलो वादलब्धिमानिति प्रेषितः, तेन तत्र गत्वा राजसभायां स पराजितः, मथुराश्राद्धैश्च गोष्टामाहिलो वर्षाचतुर्मासकं स्थापितः, तावता दशपुरे श्रीआर्यरक्षितसूरिः स्वमरणमासन्नं ज्ञात्वा स्वपट्टस्थापनायामेवं चिंतयति-वुढो गणहरसहो । गोअमाईहिं धीरपुरिसेहिं ॥ जो तं ठवेइ अपच्छे । जागंतो सो महापावो ॥१॥एवं चिंतयित्वा सर्वोऽपि संघ आकारितः, तस्याग्रे सूरिणोक्तमहं गोष्टामाहिलंप्रति घृतघटसदृशो जातः, यथा घृतघटाद् घृतमपनीयते, तदाबहवो घृतबिंदवस्तल्लग्नास्तिष्टंति, तथा मया यदा गोष्टामाहिलः पाठितस्तदा मया स्वकोष्टे बहवो विद्यांशा रक्षिताः, फल्गुरक्षितंप्रत्यहं तैलघटसदृशो जातः, यथा तैलघटात्तैलमपनीयते, तदा तत्र तैलविंदवः स्तोका एव तिष्टंति, तथा मया यदा फल्गुरक्षितः पाठितस्तदास्य कोष्टे मया घना विद्याः क्षिप्ताः, स्तोका एव रक्षिताः, दुर्बलिकापुष्पंप्र
298beeg00000000000
यथा घृतघटाद्
विद्यांशा रक्षिता,
ति, तथा मया
॥१४२॥
For Private And Personal Use Only