________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥१४१॥
000000000000000000000
कर्तुमशक्यं. गुरुणोक्तं नात्र त्रपा कार्या, अवश्यं तत्र गत्वा मिथ्यादुःकृतं देहि ? एवं वारंवारं गुरुणोक्तं खिन्नः प्रकामं घृष्टो भूत्वावदद्राशित्रयमेवास्ति, नात्र कश्चिद्दोषः, ततो गुरुशिष्ययोरेव वादो लग्नः, | आचार्या राजद्वारं गताः, शिष्येण समं वादं कर्तुमारेभिरे, वादं कुर्वतोस्तयोः षण्मासा गताः, राज्ञोक्तं मम राजकार्य सीदति, भवतां वादसमाप्तिन जोता, ततो यांतु स्वस्थाने भवंतः, गुरुभिरुक्तं कल्यदिवसे वादनिर्णयं करिष्यामि. ततः प्रभाते राजादिजनपरिवृता गुरवः कुत्रिकापणे समागताः, तद्धनिकं जगुर्देहि जीवानिति गुरुभिरुक्ते तेन कुमारकुमारीहस्त्यश्वाद्यनेके जीवा दर्शिताः, देह्यजीवानि| ति गुरुभिरुक्ते तेन घटपट्टादयोऽर्था दर्शिताः, देहि नोजीवानिति गुरुभिरुक्ते कुत्रिकापणधनिकः प्राह | न संति लोकत्रये नोजीवाः, यल्लोकत्रये भवति तदेव कुत्रिकापणे भवति नान्यत्. एवं चत्वारिंशच्छत
प्रश्नकरणेन निलोंठितो रोहगुप्तो निर्विषयीकृतः, स गणान्निव इति कृत्वा निष्कासितः, तेन वैशे| षिकमतं प्रकटीकृतं, षट् पदार्थास्तेनैव प्ररूपिताः, इति छलूओ स पठ्यते. इति षष्टनिहवकथा. (६) अथ सप्तमनिह्नवकथा यथा
000000000000000000000
॥१४१॥
For Private And Personal Use Only