________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोकं
॥१४०॥
0000000000000005000
| पुच्छास्ति, यथा ह्येकस्य दंडस्यादिमध्यमंत्यं चेति प्रकारत्रयं. एवं सर्वत्रेत्यादिवचोभिः स परिव्राजको | निलोंठितो रोहगुप्तस्याभिमुखं वृश्चिकान् मुमोच, रोहगुप्तस्तु मयूरानमुचत्, मयूरैस्तु ते सर्वे भक्षिताः. ततः परिव्राजकः सर्पानमुचत्, रोहगुप्तस्तु नकुलान् मुमोच, नकुलैस्तु नि शिताः सर्पाः, ततः स परिव्राजक उंदरान मुमोच, रोहगुप्तस्तु मार्जारान् मुमोच, मार्जारेस्तु ते भक्षिताः. ततः परिव्राजकेन मृगा मुक्ताः, रोहगुप्तेन व्याधा मुक्ताः, व्याघेर्मुगा भक्षिताः. ततः परिव्राजकेन शूकरामुक्ताः, रोहगुप्तेन तु सिंहा मुक्ताः, सिंहैः शूकरा भक्षिताः. एवं परिव्राजकेन ये ये जीवा मुक्तास्तत्प्रतिपक्षा रोहगुप्तेन मुक्तास्तैश्च ते विनाशिताः. अथात्यंतखिन्नेन परिव्राजकेन गर्दभी मुक्ता, रोहगुप्तेन सा रजोहरणेनाहतापरिब्राजकस्यैवोपरि विष्टां कृत्वा गता. ततः स परिव्राजको राजादिभिहीलितो राजद्वारागले गृहीत्वा बहिः कृतः. अथ रोहगुप्तः परिव्राजकं जित्वा गुरुसमीपे समागतः, सर्व वादस्वरूपं जगौ, गुरुणोक्तं वरं कृतं, परं त्वया राजसभायां गत्वा राशित्रयस्थापनाविषयं मिथ्यादुःकृतं देयं, जिनशासने राशिद्वयस्यैवव्यवस्थापनात्, रोहगुप्तोऽवदन्मया तादृशायां राजसभायां गत्वा मिथ्यादुःकृतं दत्वा स्ववचनमप्रमाणी
300000000000000000000
O॥१४०॥
For Private And Personal Use Only