________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥१३९॥
0000000000@ED0000000
मोति वदता पटहो वारितः, स परिव्राजकस्ततो राजद्वारे गतः, रोहगुप्तस्तु गुरुसमीपे समायातः, पटहक्षोभकरणवृत्तांतः कथितः, गुरव ऊचुर्वरं न कृतं, स विविधविद्याबलवान्, यदि त्वं स्याद्वादयुक्तिभिस्तं वादे पराजेष्यसि, तदासौ कुविद्याभिस्तवोपद्रवं करिष्यति. रोहगुप्तः प्राह गुरुभिस्तथा मम प्रसादः कार्यों यथा मम वादे जयः स्यादुपद्रवश्च यः न कश्चित् स्यात् . गुरुभिस्तस्य मयूरीनकुलीप्रमुखा विद्या दत्ताः, रजोहरणं चाभिमंत्र्य दत्तं, यदेमाभिर्विद्याभिस्तव तस्य पराभवो न तिष्टति, तदा तत्कु विद्याभिमुखमिदं रजोहरणं भ्रामणीयं, गुरुं वंदित्वा स राजसभायां गतः, तत्र मिलितो वादिप्रतिवादिनी, रोहगुप्तेनोक्तं वराकोऽयं परिव्राजकः किं जानाति? पूर्वपक्षो मयास्यैव दत्तः, यथेष्टमसो मे प्रश्नयतु? परिव्राजकेन चिंतितमसौ पूर्णविद्यावान् मया केनापि प्रकारेण जेतुमशक्यस्ततोऽस्यैव सिद्धांतपक्षमहं गृह्णामि, न ह्यसो स्वसिद्धांतपक्षमुत्थापयिष्यति. ममैव जयो भविष्यतीति विचिंत्य परिबाजकेनोक्तमहं | राशिद्वयमंगीकुर्वे, जीवराशिरजीवराशिश्च, पुण्यराशिः पापराशिश्चेत्यादि. बुद्धिमता रोहगुप्तेन तदानीं जीवोऽजीवोनो जीवश्चेति राशित्रयमुक्तं, जीवास्त्रसादयः, अजीवा घटादयः, नोजीवा गृहकोकिला छिन्न
9999990DC000000000
॥१३९॥
For Private And Personal Use Only