________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ १३८ ॥
30666066500 395960059696
www.kobatirth.org
मन्यमानो निह्नवो जातः, आचार्यैर्बहुयुक्तिभिर्बोधितोऽपि न मन्यते. एकदा स राजगृहे वीरप्रभोद्याने मणिनायकयक्षभवने उत्तीर्णः, तत्र व्याख्यानागतलोकानां पुरः क्रियाद्वयस्य युगपदनुभवो भवतीति स्वमतं प्ररूपयन् यक्षेण मुद्गरमुत्पाट्य कोपं च दर्शयित्वा तर्जितोऽरे मयात्रैव समस्त वीरमुखात् श्रुतं, यत्क्रियाद्वयस्यानुभवो युगपन्न भवति, समय सूक्ष्मत्वेन युगपदनुभवाभिमानो भ्रम एवेति त्वं किं वीरादयधिक एवेति यक्षेणैव स प्रतिबोधितः इति पंचमनिह्नवकथा. (५) अथ षष्टनिवोदाहरणं कथ्यते
वीरात्पंचशतचतुश्चत्वारिंशद्वर्षेषु गतेष्वंत रंजिकापुर्यां भूतगृहं चैत्यं, तत्र श्रीगुप्तनामाचार्याः समवसृताः, तदनार्थं प्रत्यासन्नाद् ग्रामाद्रोहगुप्तः शिष्यः समायातः स एकमुदरबद्धलोहपट्ट जंबूवृक्षशाखाकरं च परिव्राजकं दृष्ट्वा पप्रच्छ किमिदमिति, स प्राह ज्ञानेन ममोदरं स्फुटति, तेनात्र लोहपट्टो बद्धोऽस्ति, जंबूद्वीपे च मतुल्यः कोऽपि नास्तीति जंबूशाखा करे बद्धास्तीति परिव्राजकेन तदानीमेव पटहो वादितो नास्ति विश्वे कश्चिद्यो मया सह वादं करोति, रोहगुप्तेनाहं वादं करिष्या
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
999999999999999900900
सटीकं
| १३८ ॥