________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥१३५॥
00000000000000000
तम्हा किसणे पडिपुन्ने लोगागापएसे तुल्लपएसे जीवेत्ति वत्तवं सिआ,इत्यादि. अत्र स विप्रतिपन्नः, यदि | सर्वे जीवप्रदेशा एकप्रदेशहीना जीवन्यपदेशं न लभंते, स चैकैकः सर्वांतिमो जीव इति वक्तव्यः स्यात्तद्भावनाभावितत्वात् , इति तस्यांतप्रदेशे जीवभ्रांतिः. ततः स शिष्य आमलकप्पानगयां गतः, तत्र मित्रश्रीनाम्ना श्रावकेण स्वगृहे निमंत्रितः, लड्डुकांतिमप्रदेश एकः, सेवनिकाखाद्यांतिमप्रदेश एक एव, भृतहिंडिकामध्यादेक एव, कूरादिकरणं, भृतघृतपात्रमध्यादेक एव बिंदुः, एवं सर्वसंबंध्येकैकप्रदेशो दत्तः, पुनः श्राद्धेनोक्तं भगवन् यूयं प्रतिलाभिताः,वयं कृतार्थाः कृताः, तेनोक्तं भोः श्राद्ध ! किं त्वया दत्तं ? श्रावकेणोक्तं तव सिद्धांतानुसारेण मया पूर्ण दत्तं, अंतिमेऽवयवे दत्ते पूर्णोऽवयवी दत्तः, अंतिमे प्रदेशे यथा जीवस्तथा सर्वोऽप्यवयवी अंत्यावासे वक्तव्य इति वीरसिद्धांतानुसारेण न किंचिंन्मया दत्तमस्तीत्यादियुक्तिभिर्भित्रश्रीश्राद्धेन स प्रिबोधितः, इति श्रोद्वितीयनिहवतिष्यगुप्तोदाहरणं. (२) एतौ द्वौ निह्नवो श्रीवीरे जीवत्येवाभूतां. अथ तृतीयनिह्नवोदाहरणं कथ्यते
श्रीवीरनिर्वाणात् २१४ वर्षेषु गतेषु श्वेतांबिकयां पोलासोद्याने आषाढाचार्याः स्वशिष्यानागाढ
3000000000000000000000
॥१३५॥
For Private And Personal Use Only